________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं ४९ इति स्थेयः । अत्राक्षं न्याय व्यवहारं पश्यतीत्यक्षदृग् न्यायदर्शक इत्यर्थः । अत्र श्लेषसमुच्चयोदात्तोपमानानि ॥ ४२ ॥ अग्रे भर्तुनिजभुजमथो मत्तहस्तीव हस्तं
व्यातत्यास्थाद्यदुपरिवृढो दक्षिणं पुष्कराग्रम् । यस्य द्युम्नाम्बुधिपरतटं राजकान्यप्यवापुः __ स्कन्धावारैः सह नहि परोलक्षसद्यानपात्रैः ॥ ४३ ॥
'अथों' अनन्तरं 'यदुपरिवृढः' कृष्णो भर्तुरने दक्षिणं निजभुजं 'व्यातत्य' विस्तार्य अस्थात् । किंविशिष्टं निजभुजम् ? 'पुष्करानं' पुष्करेण कमलेन अग्रं प्रधानम् । करे कमलं हि लक्षणं वर्त्तते । अथवा पुष्करवत् कमलवदग्रं यस्य तम् । क इव ? 'मत्तहस्तीव' यथा मत्तहस्ती 'हस्तं' शुण्डादण्डं व्यातत्य तिष्ठति । किंरूपं हस्तम् ? पुष्करंपुष्करसंज्ञकमग्रं यस्य तं पुष्कराग्रम् । शुण्डादण्डस्याग्रं पुष्करं कथ्यते । अथ भुजस्य बलमानमाह-राजकान्यपि' राजसमूहा अपि 'स्कन्धावारैः' महासैन्यैः सह 'यस्य' भुजस्य 'घुम्नाम्बुधिपरतटं' बलसमुद्रपारं नावापुः । एतावता षोडश राजसहस्राः ससैन्या अपि यस्य भुजस्य बलपारं न यान्ति “सोलस रायसहस्सा.” इत्या. गमप्रामाण्यात् । किंविशिष्टैः स्कन्धावारैः ? 'परोलक्षसद्यानपात्रैः' परोलक्षाणि-लक्षातीतानि सन्ति-प्रधानानि यानानि वाहनानि गजाश्वरूपाणि तेषां पात्रैः स्थानैः । श्लेषेण प्रतीयमानमर्थान्तरं यथाअम्बुधेः-समुद्रस्य तीरं स्कन्धावारैर्लोकरूढिप्रसिद्धैरत्यन्तगरिष्ठवहनसमूहैर्न प्राप्यते । किंरूपैः स्कन्धावारैः ? परोलक्षाणि सन्ति-विद्यमानानि यानपात्राणि प्रवहणानि येषु । अत्र राज्ञां समूहा राजकानि “गोत्रोक्षवत्सोष्ट्रवृद्धाऽजोरभ्रमनुष्यराजराजन्यराजपुत्रादक" (सि० ६-२-१२) इत्यकञ् । लक्षात्पराणि परोलक्षाणि "परः शतादि” (सि० ३-१-७५) इति पञ्चमीतत्पुरुषः । सूत्रबलादेव परः सविसर्गः । अत्रोपमाश्लेषोदात्तानि ।। ४३ ॥