________________
४८ जैनमेघदूतम् ।
মিথলঃ प्रकटं रसा मधुराधाः कला गीताद्याः केलयोऽम्बुविहारान्दोलनपुर प्पावचयाद्याः कृत्यान्तराणामापणोपवेशनक्रयविक्रयाधानामाया लाभा यैस्ते विमुक्तभोजनकलाभ्यासक्रीडाव्यवसाया इत्यर्थः । अम
पक्षे दूरेऽपास्तास्यक्ताः स्फुटं प्रकटं रसाः शृङ्गाराद्याः कलाकेलिः कामस्तस्य कृत्यानि क्रीडादीर्घिकालोडनकदलीगृहशयननाट्यदर्शनाङ्गनापरिष्वङ्गादीन्येव प्रकृतप्रयोजनं प्रत्यन्तराया वैस्ते । पुनः किंरूपाः? 'व्याप्तानन्ताः' व्याप्ताऽनन्ता पृथ्वी यैस्ते । पक्षे व्याप्तमनन्तमाकाशं यैस्ते । पुनः किंरूपाः? 'परिहतगवः' परिहता त्यक्ता गौर्वाणी यैस्ते । पक्षे परिहतो गौः स्वर्गो यैस्ते । पुनः कथंभू. ताः ? मर्त्यपक्षे 'अनिर्निमेषाक्षिलक्ष्याः' निर्निमेषाणि निमेषरहितानि अनिनिमेषाणि निमेषसहितानि अक्षीणि नेत्राणि तैर्लक्ष्यन्ते ज्ञायन्ते इति । अमर्त्यपक्षे निर्निमेषैर्निमेषरहितैरक्षिभिर्लक्ष्याः । अतस्तत्र नरामराणां महासमुदाया नेत्राणां सनिमेषत्वानिमेषत्वाभ्यामेव लक्ष्यमाणाः सन्ति । पुनः किंरूपाः 'चित्रीयमाणाः' चित्रमाश्चर्य कुर्वन्तः। पुनः किंविशिष्टाः ? 'लघु' शीघ्रं तौ' नेमिकृष्णौ निशमिष्यामो विलोकयिष्याम इति निशमकाः । पुनः किंरूपाः ? 'स्थेयवन्निर्विशेषाः' स्थेयवत् सभ्यवत् निर्विशेषा विशेषरहिताः । समगमतेति "समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यर्त्तिदृशः” (सि० ३-३-८४) इत्यात्मनेपदम् । चित्रङ् सौत्रो धातुः, चित्रं करोतीति "नमोवरिवश्चित्रडोऽर्चासेवाश्चर्ये” (सि० ३-४-३७) क्यन् , "क्यनि” (सि० ४-३-११२) ई, चित्रीयन्ते इति वर्तमाने "शत्रानशावेष्यति तु सस्यौ” (सि० ५-२-२०) आनशोऽन्तः । निशमका इति शमू दमूच उपशमे, शम् निपूर्वो निशमिष्याम इति "क्रियायां क्रियार्थायां तुम्णकचभविष्यन्ती” (सि० ५-३-१३) णकचप्रत्ययः । "मोऽकमियमिरमिनमिगमिवमाचमः” (सि० ४-३-५५) इति वृद्धिनिषेधः । स्थेयवदिति हैमानेकार्थे "स्थेयोऽदृक्पुरोधसोः"