________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं ४७ भवन्तश्च न शोभन्त इत्यर्थः । किमिव? 'सन्मणीनां निकषकषणमिव' यथा प्रधानमणीनां चन्द्रकान्तादीनां निकषे शाणायां कषणं समुत्तेजनमभिख्यां न धत्ते । अत्रार्थान्तरन्यासोपमानानुप्रासाः॥ ४० ॥ ओमित्युक्त्वा स्थितवति पुरः केशवे संमुखीनः
स्वाम्यप्यस्थादतरलतनुर्योगनिद्रामवाप्तः । द्वावप्येतावथ दशधनुष्प्रांशुरिष्टांशुमूर्ती
बभ्रासाते इव नगपती सङ्गतावञ्जनाख्यौ ॥४१॥ 'स्वाम्यपि' नेमीश्वरोऽपि 'संमुखीनः' संमुखोऽस्थात् । क सति? 'केशवे' कृष्णे ओमित्युक्त्वा 'पुरः' अग्रे स्थितवति सति यद्भगवता भुजयोर्नमनविधिनैव भुजबलपरीक्षाऽस्त्वित्युक्तं तत्प्रतिपद्य स्वामिनोऽने ऊर्ध्व स्थिते कृष्णे स्वाम्यपि संमुखस्तस्थावित्यर्थः । किंविशिष्टो भगवान् ? 'अतरलतनुः' अतरला निश्चला तनुर्यस्य सः । उत्प्रेक्ष्यते-निश्चलाङ्गतया योगनिद्रामवाप्त इव । 'अर्थ' अनन्तरं 'एतौ द्वावपि' कृष्णनेमिनौ 'वभ्रासाते' विरेजतुः । किंविशिष्टावेतौ ? 'दशधनुष्मांशुरिष्टांशुमूर्ती' दश धनूंषि प्रांशुरुच्चैस्तरा रिष्टरत्नवदंशवो यस्याः सा रिष्टांशुरीदृशा मूर्तिर्ययोस्तौ । उत्प्रेक्ष्यते 'संगतौ' मिलितौ 'अञ्जनाख्यौ' अञ्जननामानौ 'नगपती' महापर्वताविव । अत्र संमुखं मुखं दृश्यतेऽस्मिन्निति संमुखीनः । तथा मुखसंमुखादीनस्तदृश्यतेऽस्मिन्निति ईनः । अत्रोत्प्रेक्षोपमानुप्रासाः ॥ ४१ ॥ दुरापास्तस्फुटरसकलाकेलिकृत्यान्तराया
व्याप्तानन्ताः परिहतगवो(s)निर्निमेषाक्षिलक्ष्याः। मामाः समगमत तौ तत्र चित्रीयमाणा
रोदःखण्डे लघु निशमकाः स्थेयवनिर्विशेषाः॥४२॥ 'मामाः ' नरामरास्तत्र 'रोदःखण्डे' आकाशपृथ्वीमध्ये 'समगमत' अमिलन् । किंविशिष्टा मामाः ? 'दुरापास्तस्फुटरसकलाकेलिकृत्यान्तरायाः' तत्र मर्त्यपक्षे दूरेऽपास्तास्त्यक्ताः स्फुटं