________________
४६
जैनमेघदूतम् ।
[प्रथमः
कारकारित्वाञ्च चेतसि जागरूकं शङ्खपूरणं नेमीशस्योपक्रम नेमीशेनादौ प्रवर्तितम्, “आदावुपक्रमोपज्ञे” (हे० लिङ्गा० न० ११ श्लो०) इति क्लीबत्वम् । ननु शङ्खस्तावदनेकैरपि पुरापूरि, अतोऽत्रादित्वं कथं येन क्लीबत्वम् ? सत्यम् ,परं यादृशः सागरगिरिनगरक्षोभकारी भगवता शङ्खोऽपूर्यत तादृशोऽग्रेऽन्येन केनापि नास्ति पूरित इत्यादित्वम् । तद् ज्ञातं पूर्वमनेनेति ज्ञातपूर्वी “पूर्वमनेन सादेश्वेन्” (सि. ७-१-१६७ ) इति ईन्प्रत्ययः । आह्वास्तेति "हः स्पर्द्ध" (सि० ३-३-५६) इत्यात्मनेपदम् । अत्र श्लेषविरोधकाव्यलिङ्गानि । नेमिः शङ्खमापूर्य कृष्णसभां गतः । श्रीकृष्णोऽपि नादबलचमत्कृतो भुजबलपरीक्षार्थ मल्लयुद्धाय स्पर्द्धया भगव. न्तमाहूतवाम् ॥ ३९ ॥ ध्यात्वा किश्चिन्मनसि स विभुः श्रीपतिं माह बन्धोऽ
न्योऽन्यं दोष्णोर्नमनविधिनैवावयोरस्तु सेयम् । साहस्राणामितरजनवनौत्तराधर्यवृत्तं
धत्तेऽभिख्या निकषकपणं सन्मणीनामिवादः॥४०॥ स विभुर्मनसि किञ्चिद्ध्यात्वा श्रीपतिं 'आह स्म' उवाच । यदसौ त्रिभुवनस्यापि क्षोभकं मम मुष्टिप्रहारपार्णिघातादिकं कथं सोढेति भगवान् दध्यौ, तच्चातीन्द्रियमिति राजीमती न प्रत्येति, एतदेव कलयति यद्भगवता किञ्चिद्ध्यातम् । अथ भगवान् किमुवाच ? हे बन्धो ! 'सेयं भुजबलपरीक्षा आवयोः 'अन्योऽन्य' परस्परं 'दोष्णोः' मुजयो मनविधिनैवास्तु, एक एकतरस्य भुजं नामयतीति । अत्र युक्तिमाह-साहस्राणां पुरुषाणामितरजनवदौत्तराधर्यवृत्तं 'अभिख्यां' शोभा न धत्ते । ये सहस्रेण युध्यन्ते ते साहस्रा उच्यन्ते । मल्लयुद्धे एक एकेनाधः क्रियतेऽन्यस्तूपरि भवतीयौत्तराधर्य, औत्तराधर्येण वृत्तं भवनं औत्तराधर्यवृत्तम् । एतावता सहस्रयोधिनः पुरुषाः सामान्यलोकवन्मल्लयुद्धेऽधःक्रियमाणा उपरि