________________
सः]
श्रीमन्मेरुतुङ्गसूरिविरचितं
स्तुनः । तथैव करणं चेति विशेषत्रिविधः स्मृतः ॥” (का० १०, १३६) सर्व पारिप्लवमिति वाक्यताप्राप्त्या शङ्खनादाद्वैताभिधानमिति पर्यायोक्तम् । अत्र दीपकसमुच्चयोदात्तातिशयोक्तयः काव्यत्रबेऽपि ज्ञेयाः ॥ ३८॥
अथ शङ्खपूरणादनु यज्जातं तदाहजानल्लोके स जलजतया क्लेशबीजं कृपालुः
कम्बु हित्वाऽपि हि जलशयास्थानमा(दथेशः । नेमीशोपक्रममिदमिति ज्ञातपूर्वी मुरारि
र्योग्याभूमौ भुजबलपरीक्षार्थमावास्त तं च ॥ ३९ ॥ 'अर्थ' अनन्तरं स ईशः 'कम्बु' शङ्ख जलजतया क्लेशानां शखाध्यक्षमूर्छाहयगजत्रासप्रासादप्राकारकम्पलोकहाहाकारादीनां बीजं कारणं क्लेशबीजं जानन् ‘हित्वापि' त्यक्स्वापि 'हिः' इति विस्मये 'जलशयास्थानमा(त्' जलशयस्य कृष्णस्य आस्थानं सभामागच्छत्। शको जलजः कथ्यते तस्य भावो जलजता तया । नाम्न्येव श्लेषेणार्थान्तरमुद्भावयति कविः-डलयोरक्यादन्योऽपि यो जडजो भवति जडाज्जायत इति जडजो मूर्योद्भवः स क्लेशानां कामक्रोधकलहाभिनिवेशपैशुन्यादीनां बीजं भवतीत्येषोऽपि जलजः । अपि हीति विरोधोद्भावने । जडजतया क्लेशबीजं त्यक्त्वापि यो जडमध्ये शेते इति जडशयो मूर्खाशयवासी तस्य सभामागच्छदिति विरोधः । यदि जलजः क्लेशबीजं ज्ञायते तर्हि जलशयास्थाने कथं गम्यत इति । 'च' अन्यत् मुरारिः 'योग्याभूमौ श्रमभूमिकायां भुजबलपरीक्षार्थ 'सं' भगवन्तं 'आह्वास्त' आकारितवान् । अस्य यादृशं नादबलं वर्त्तते दोबलमपि तेनानुमानेन वर्तते न वेत्यभिप्रायेण तत्परीक्षार्थमेनमाकारितवान् कृष्णः । परं राजीमती तमभिप्रायं न केतीति सोऽभिप्रायः साक्षानोपनिबद्धः । किविशिष्टो मुरारिः? इई नेमीशोपक्रम इति शातपूर्वी इमिति श्रोत्रेन्द्रियप्रत्यक्षं चम