________________
४४
जैनमेघदूतम् ।
[प्रथमः
एतेनात्याकुलत्वं सूचितम् । 'योद्धः' भटस्य 'पाणे:' हस्तादखाण्यपतन् । किंवत् ? 'गुच्छच्छदवत्' गुच्छो वृक्षस्तस्य च्छदानि दलानि तद्वत् , यथा फाल्गुने गुच्छच्छदानि पतन्ति । योद्धरिति जातावेकवचनम् । 'प्राकाराग्रयाण्यपि' कपिशीर्षाण्यपि 'विजगलु' षटत्पटकुर्वन्ति दुर्गभित्तेर्गलितानि भ्रष्टानि । के इव? 'गण्डशैला इव यथाऽद्रेर्गण्डशैलाः स्थूलोपला गलन्ति । 'च' अन्यत् 'उज्जयन्तः' रैवतकः 'प्रतिरुतनिभात्' प्रतिशब्दमिषात् पूञ्चके । किंविशिष्टः ? 'भूरिभीः' भूरिर्बह्वी भीः भीतिर्यस्य सः । अत्र श्लेषोपमारूपकाप[तिसमुच्चयदीपकानि ॥ ३७॥ तस्थुरिति । क्षितिपतिसमें राजसभायां 'हियैव' लजयैव 'यद्भविष्याः' दैवपरास्तस्थुः, यद्देवं करिष्यति तद्भविष्यतीत्येवमवष्टभ्य पलायने कातरा अमी इति प्रवादमाप्स्यामस्ततो लज्जयैव तस्थुन तु धैर्येण । 'आस्थानस्य' सभायाः 'अन्तः' मध्ये 'अधोक्षजः' कृष्णः क्षोभमार्षीत् । किंविशिष्टोऽधोक्षजः? 'किमिति चकितः' चलचित्ततया किं किमिति शङ्कितः । किं वा' अथवा बहु किं कथ्यते ? इत्यर्थः । तदा सर्व पारिप्लवं' क्षणिक इति वाक्यं 'तथ्यतां सत्यतामाप । क सति? 'कम्बोः' शशस्त्र प्रौढनादे 'नगरवरणे' नगरदुर्गे 'मूर्च्छति' प्रवृत्तयति सति । बौद्धा हि सर्व क्षणिकं मन्यन्ते, तद्दष्टेष्टाभ्यामघटमानमपि तदा घटितम् । को. ऽर्थः? शङ्खस्य महानादे सर्वत्र विस्तृते सति सकलगजतुरगपदातिसर्वबलनागरिकत्रासप्रासादशिखरधवलगृहगवाक्षचलनप्राकारकपिशीर्षकगलनरैवतकाद्रिकम्पादिना लक्षणेन सर्वत्र वैसंस्थुल्यं तथाऽजनि यथा सर्व क्षणिकमिति वाक्यं सत्यमभूत् । क्षितिपतेः सभा क्षितिपतिसमं तत्र, "राजवर्जितराजार्थराक्षसादेः परापि च ।” (हे. लिङ्गा० नपुं० ११ श्लो०) इति नपुंसकत्वम् । अत्र पर्यायोकं वा । प्राकारादिक्षोभे जायमाने शक्यस्यापि सर्वपारिप्लववाक्यता घटनमिति विशेषः । ततः-"अन्यत्प्रकुर्वतः कार्यमशक्यस्यान्यव