________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं किं वा कम्बोर्नगरवरणे मूर्च्छति प्रौढनादे सर्व पारिप्लवमिति तदा तथ्यतामाप वाक्यम् ॥ ३८ ॥
त्रिभिर्विशेषकम् ।। 'तस्मिन्नीशे' श्रीनेमिजिनस्वामिनि 'जलजं' शङ्ख 'धमति' वादयति सति 'ते' प्रसिद्धाः 'शस्त्राध्यक्षाः' आयुधरक्षकाश्छिन्नमूलद्रुवत् 'उा' पृथिव्यां पेतुः । द्रुर्वृक्षः । किंरूपाः शस्त्राध्यक्षाः ? 'सपदि' तत्कालं विगलन्ती चेतना येषां ते विगलञ्चेतनाः । 'च' अन्यत् 'आश्वं' अश्वसमूहं 'मन्दुराभ्यः' हयशालाभ्यः 'आशु' शीघ्र 'प्रणश्यत्' पलायमानं मनो व्यजयत । अश्वानां समूह आश्वम् । अश्वैर्भातैस्त्रस्यद्भिवेगेन मनोऽपि जितमित्यर्थः । 'मूढाल्मेवामुचत चतुरोपाश्रयं हास्तिकं च' च अन्यद् हास्तिकं हस्तिनां समूहः चतुरोपाश्रयं हस्तिशालाममुचत् , सिंहनादभ्रान्त्या हस्तिनो हस्तिशालातसस्ता इत्यर्थः । क इव? 'भूढात्मेव' यथा मूढात्मा मूर्खश्चतुरोपाअयं चतुराणां दक्षाणामुपाश्रयं स्थानं मुञ्चति । “मूढनेवौज्झ्यत च चतुरोपाश्रयः हास्तिकेन” इति पाठे 'औज्झ्यत' अत्यज्यत, परमस्मिन् पाठे भग्नप्रक्रमो दोषः । अन्याः सर्वा सक्तयः कर्ता नियूंढाः सन्ति । एषा तु कर्मणेति भमप्रक्रमत्वम् । व्यजयतेति “परावेजेः" (सि० ३-३-२८) आमनेपदम् । अश्वानां समूह आश्वं "पष्ठयाः समूहे" (सि०६-२-९) अण् । हस्तिनां समूहो हास्तिकं "कवचिहस्स्यचित्ताच्चेकण्” (सि० ६-२-१४). इकण्प्रत्ययः । अत्रोपमानक्रियासमुच्चयदीपकपर्यायोक्तानि । मनो व्यजयतेति वेगातिशयप्रतिपादनात्पर्यायोक्तम् ॥ ३६ ॥ हारावाप्तीरिति । तस्मिनीशे जलजं धमति सतीति सर्वत्रापि संबध्यते । 'पौरनार्यः' नागरिकलियो हृदीव 'आनने' मुखे 'हारावाप्तीरदद्धत' कोर्थः? यथा हृदि हारस्यावाप्तिः प्राप्तिर्धियते, तथा मुखेऽपि हा इति रावस्तस्यासयो धृताः । बहुवचनमेकस्या अपि बहुशो हाहाशब्दकरणात् ।