________________
४२
जैनमेघदूतम् ।
[प्रथम
शैलेयं “ शिलाया एयथ” (सि० ७-१-११३) एयन् प्रत्ययः तदनु " प्रात्यवपरिनिरादयो गतक्रान्त - " ( सि० ३–१–४७ ) ६ त्यादिना तत्पुरुषः । अतिक्रान्तं शैलेयं दधि येनेति बहुव्रीहौ "दध्यु रः सर्पिर्मधूपानच्छाले :” ( सि० ७ - ३ - १७२ ) इति कप्रत्यय स्यात् । अवाङ्मनसेति वाक्क मनश्चेति वाङ्मनसं "ऋक्सामयजुष धेन्वनडुहवाङ्मनसाहोरात्ररात्रिंदिवनक्तं दिवाद्द्विोर्वष्टी वाक्षिभ्रुवदार गवम् ” ( सि० ७ - ३ - ९७ ) इति समासान्तो ऽत्प्रत्ययो निपातश्च । व्यानशे अशौटि व्याप्तौ । ज्योत्स्ना विद्यते यस्यां सा ज्योत्स्नी "ज्योत्स्नादिभ्योऽण्” (सि० ७–२ – ३४ )अणू, वृद्धिः, “अवर्णेवर्णस्य” ( सि० ७-४-६८ ) इत्यालोपे, “अणयेयेकणून नटिताम्” ( सि० २ - ४ - २० ) ङीप्रत्यये ज्यौस्त्रीरूपम् । शरदोऽन्तर्मध्यमन्तःशरदं “शरदादेः” ( सि० ७ - ३ - ९२ ) अत्प्रत्ययः । अि afe पयि मयि नय चयि रयि गतौ, अय् अभि-उत्पूर्वः क्तप्रत्ययेऽभ्युदयितः । अत्रोपमानमालोपमोदात्तानि ॥ ३५ ॥
तस्मिन् शङ्ख पूर्यमाणे सति यज्जातं तद्विशेषकेनाहतस्मिन्नीशे धमति जलजं छिन्नमूलद्रुवत्ते
शस्त्राध्यक्षाः सपदि विगलच्चेतनाः पेतुरुर्व्याम् । आवं चाशु व्यजयत मनो मन्दुराभ्यः प्रणश्यमूढात्मेवाचत चतुरोपाश्रयं हास्तिकं च ॥ ३६ ॥ हारावासीरदधत हृदीवानने पौरनार्यो
योद्धुर्गुच्छच्छदवदपतन् फाल्गुनेऽत्राणि पाणेः । प्राकाराग्र्याण्यपि विजगलुर्गण्डशैला इवाद्रेः पूच्चक्रे च प्रतिरुतनिभाद्भूरिभीरुञ्जयन्तः ॥ ३७ ॥ तस्थुर्वीराः क्षितिपतिसभे यद्भविष्या हियैवास्थानस्यान्तः किमिति चकितोऽधोक्षजः क्षोभमार्षीत् ।