________________
सर्गः। श्रीमन्मेरुतुङ्गसूरिविरचितं प्रकृष्टदेवैर्विस्मयाद्वीक्ष्यते महाबलवांश्च भवति । किंविशिष्टं जलजम् ? 'भूरिस्फूर्जत्परिचितगुणं भूरयो बहवः परिचिताः श्लिष्टा गुणाः केसराणि यत्र तत् । अत्र प्रकृष्टा अनिमिषा अनिमिषतमाः, “प्रकृष्टे तमप्" ("सि० ७-३-५) तमप् प्रत्ययः । 'आनन्यौजाः' अनन्तमेवानन्त्यम् , "भेषजादिभ्यष्ट्याण्” (सि० ७-२-१६४) ट्यणप्रत्ययः । रोहन्तं प्रायुत "प्रयोक्तृव्यापारे णिग्" (सि० ३-४-२०) णिग्, "रुहः पः” (सि० ४-२-१४) हस्य पः । अत्र स्मितसितमुखो रोपयामासेति गूढलक्षणा । अत्र समासोक्तिरूपफदीपकानुप्रासाद्याः ॥ ३४ ॥
तेन स्निग्धाञ्जनघनघनः सोऽतिशैलेयदना __ लोकेशो वाङ्मनसविषयं व्यानशे श्रीविशेषम् । ज्यौल्यामन्तःशरदममलं व्योम पूर्णेन्दुनेव
प्रत्यग्रो वाभ्युदयित इव त्वं बलाकाकुलेन ॥३५॥ स लोकेशः 'तेन' शङ्खन 'श्रीविशेष' शोभाविशेषं 'व्यानशे प्राप्तवान् । किंरूपः सः? 'स्निग्धाजनघनघनः' स्निग्धं यदखनं घनो मेघस्तद्वद्धनः शरीरं यस्य । किविशिष्टेन तेन? 'अतिशैलेयदना' शिलया तुल्यं शैलेयं ईदृशं दधि अतिक्रान्तः अतिशैलेयधिस्तेनातिशैलेयदना, एतावताऽतीवशुक्लस्निग्धतया स्नेहबहुलं पिच्छलं दध्यतिक्रान्तम् । किंरूपं श्रीविशेषम् ? 'अवाङ्मनसविषयं' वाक् च मनश्च वाङ्मनसे वाङ्मनसयोर्विषयो वाङ्मनसविषयो न विद्यते वाङ्मनसविषयो यत्र स तम् , अतो वाचा वक्तुं मनसा चिन्तयितुं न पार्यते । किमिव? अमलं व्योमेव, यथा 'अन्तःशरदं शरत्कालस्यान्तः 'ज्योत्स्न्यां' पूर्णिमायां पूर्णेन्दुना श्रीविशेष व्यश्रुते । 'वा' अथवा क इच! 'स्वमिव' यथा त्वं 'प्रत्यप्रः' नवीनः 'अभ्युदयितः' उदयं प्राप्तः सम् बलाकाकुलेन श्रीविशेष व्यमुषे । व्योममेघौ भगवत उपमा । पूर्णेन्दुबलाकाकुले शङ्कस्य । शिलायास्तुल्यं