________________
जैनमेघदूतम् । सप, चिकीर्षतीति “किप” किप , “अतः” (सि० ४-३-८२) अलोपः, "अप्रयोगीत्” (सि० १-१-३७ ) किलोपः, प्रथमा सि, "दीर्घडयाबव्यञ्जनात्सेः” (सि०१-४-४५) सिलोपः, "रात्सः” (सि. २-१-९०) इति सूत्रेण "णषमसत्परे स्यादिविधौ च" (सि. २-१-६०) इति षत्वस्यासत्वात्सलोपः, चिकीरिति निष्पन्नम् । जलशयमृते "ऋते द्वितीया च" (सि० २२-११४ ) इति द्वितीया । “संजुसंज्ञौ युतजानू” इति ॥ ३३ ॥
तच्चाकर्ण्य सितसितमुखः सोदरस्तेजसांशो__ रभ्याशस्थैरनिमिषतमैर्विमयाद्वीक्ष्यमाणः । आनन्त्यौजाः स लघु जलजं लीलयाऽधत्त हस्ते
भूरिस्फूर्जत्परिचितगुणं रोपयामास चास्ये ॥ ३४ ॥ 'सः' भगवान् 'लघु' शीघ्रं यथाभवति 'जलजं' शङ्ख लीलया हस्तेऽधत्त 'च' अन्यत् 'आस्ये' मुखे रोपयामास । लीलयेति प्रयासपरिहारः । किंरूपः? 'चः' पूर्वोक्तसमुच्चये तत्प्रतीहारोक्तमाकर्ण्य 'स्मितसितमुखः' स्मितेन हास्येन सितं श्वेतं मुखं यस्य सः । प्रतीहारेण यदुक्तमयं शङ्खः श्रीकृष्णं विनाज्येन केनापि पूरयितुं न शकाते इतिवाक्यं श्रुत्वा न जानाति वराकोऽस्मद्वलमिति मनाग्विकखरीभूतकपोलनेत्ररूपस्मितोज्वलमुखः। पुनः कथंभूतः? 'तेजसा' कान्त्या 'अंशोः' सूर्यस्य सोदरः । पुनः किंरूपः ? 'अभ्याशस्थैः' समीपस्थैः 'अनिमिषतमैः' अनिमेषैर्जनैः 'विस्मयाद्' आश्चर्याद्वीक्ष्यमाणः । पुनः कथंभूतः ? 'आनन्यौजाः' आनन्त्यमनन्तमोजो बलं यस्य सः। किं. विशिष्टं जलजम् ? 'भूरिस्फूर्जत्परिचितगुणं' भूरि सुवर्ण तस्य स्फूर्जन परिचितो बद्धो गुणो दवरको नालाख्यो यत्रासौ भूरिस्फूर्जपरिचितगुणस्तम् । अथ साधारणविशेषणैः प्रतीयमानमर्थान्तरम्अन्योऽयंशोः सोदर ऐरावणो 'जलजं' कमलं लीलया हस्ते शुण्डालण्डे दधाति 'च' अन्यन्मुखे रोपयति । सोऽपि समीपस्थैरनिमिषतमैः