________________
सर्गः।
श्रीमन्मेरुतुङ्गसूरिविरचितं
लक्ष्मीर्यस्य : सकाशात्ताम् । पक्षे विकचानि स्मेराणि कमलानि यस्यां सा ताम् । न्यविशतेति "निर्विशः” (सि० ३-३-२४) इत्यात्मनेपदम् । अत्रोपमाश्लेषाः ॥ ३२ ॥ तत्र प्रेक्षाकुतुकनिहितप्रेक्षणः पाञ्चजन्य
शङ्ख प्रेक्ष्य श्रुतिसुखचिकीर्यावदादित्सतासौ । तावत्क्षत्ता जलशयमृते पूर्यते नायमन्यै
रित्थं संजुर्विनयविनमन्मौलि विज्ञप्तवांस्तम् ॥ ३३ ॥ 'असौं' भगवान् 'तत्र' शस्त्रागारे 'पाञ्चजन्यं' शङ्ख प्रेक्ष्य यावत् 'आदित्सत' ग्रहीतुमैच्छत किंरूपोऽसौ? 'प्रेक्षाकुतुकनिहितप्रेक्षणः' प्रेक्षा विलोकनं तस्याः कुतुकेन कुतूहलेन निहितेऽर्थात्तत्र शङ्के न्यस्ते प्रेक्षणे लोचने येन स प्रेक्षाकुतुकनिहितप्रेक्षणः । किंरूपः ? 'श्रुतिसुखचिकीः' श्रुत्योः कर्णयोः सुखं कर्तुमिच्छतीति श्रुतिसुखचिकीः । तावत् 'क्षत्ता' प्रतीहारः 'तं' भगवन्तं 'विनयविनमन्मौलि' यथाभवति इत्थं विज्ञप्तवान् विनयेन विनमन्मौलियंत्र नमने तक्रियाविशेषणम् । इत्थमिति किम् ? 'अयं' शङ्खः 'जलशयं' कृष्णं 'ऋते' विनाऽन्यैर्न पूर्यते । किंरूपः क्षत्ता? 'संझुः' योजितजानुयुगः । अत्र शङ्खपूरणनिषेधद्वारेण ग्रहणनिषेधः कृतः। न तु प्रभोर्मा गृहाणेति निरुपचारं वाचा वक्तुं युक्तमिति पर्यायोक्तमनुप्रासश्च । चिकीरत्र डुकंग करणे, कर्तुमिच्छतीति “तुमर्हादिच्छायां सन्नतत्सनः” (सि० ३-४-२१) सन् , "स्वरहनामोः सनि घुटि" (सि० ४-१-१०४) कृदीर्घः, "सन्यङश्च” (सि० ४१-३) कृद्वित्वं, "हस्वः” (सि०-४-१-३९) कृ, "ऋतोऽत्" (सि० ४-१-३८) - अ, "सन्यस्य” (सि० ४-१-५९) कि, "कङञ्चम्” (सि० ४-१-४६) कि चि, "ऋतां विडतीर्" (सि० ४-४-११६ ) किर्, “भ्वादेर्नामिनो दीर्घो-” (सि. २-१-६३) कीर्, “नाम्यन्तस्थाकवर्गात्-" (सि० २-३-१५)