________________
जैनमेघदूतम् ।
[प्रथमः
अत्रोपमारूपकसमासोक्तिपरिकरानुप्रासाः। लोकम्पृणेत्यत्र श्लेषोक्त्या द्वितीयार्थस्य लभ्यमानत्वात्समासोक्तिः । आगृह्णानावित्यादिसाकूतैविशेषणैः परिकरः । कियत्कालमित्यत्र “कालाध्वनोाप्तौ” (सि० २-२-४२) इति द्वितीया ॥ ३१ ॥
अथ कथाप्रसङ्गमाहस्वैरं भ्राम्यन् वनगज इव श्रीपतेरन्यदासौ
शस्त्रागारं न्यविशत लसच्चारुचक्रं सरोवत् । तत्रापश्यत्कुटिलसरलां सर्वतः पुष्कराठ्यां
शस्त्रश्रेणी विकचकमलां वीचिमालामिवाथ ॥ ३२॥ 'अन्यदा' अन्यस्मिन् काले 'असौ' भगवान् वनगज इव 'स्वैरं' स्वेच्छया भ्राम्यन् सरोवत् 'श्रीपतेः' कृष्णस्य 'शस्त्रागारं' आयुधशाला न्यविशत । एतावता असौ भगवानन्यदा यदुकुलकुमारपरिवृतः क्रीडया भ्रमन् कृष्णस्यायुधशालायां गत इत्यर्थः । यथा गजः खेच्छया भ्रमन् सरो विशति । किंविशिष्टं शस्त्रागारम् ? 'लसच्चारुचक्र' लसञ्चार मनोज्ञं चक्रं चक्रप्रहरणं सुदर्शनाख्यं यत्र । सरःपक्षे चक्राश्चक्रवाकाः । अथासौ भगवान् तत्र शस्त्रागारे 'शस्त्रश्रेणीं' शार्ङ्गधनुष्कौमोदकीगदानन्दकखगादिकामपश्यत् । कामिव ? 'वीचिमालामिव' यथा गजस्तत्र सरसि वीचिमालां पश्यति । किंविशिष्टां शस्त्रश्रेणीम् ? 'कुटिलसरलां' कुटिला चासौ सरला च कुटिलसरला ताम् । कानिचिद्धनुरादीनि कुटिलानि कानिचित्खड्गगदादीनि सरलानि वर्त्तन्ते । कुब्जकुण्ठवत्समासः । वीचिपक्षेऽप्ययमेवार्थः । पुनः कथंभूतां? 'सर्वतः पुष्कराढ्यां' पुष्कराण्यसिफलानि शरा वा तैराठ्यां समृद्धाम् । पक्षे पुष्करं जलं तेनाव्यां समृद्धाम् । यतः-"पुष्कर तीर्थाहिखगरागौषधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डाने खे जलेऽम्बुजे ॥” इत्यनेकार्थात् । पुनः कथंभूताम् ? 'विकचकमलाम्' विकचा विकखरा कमला