________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं पूर्यन्त इति । अत्रोपमामालोपमासमुच्चयकाव्यलिङ्गानुप्रासाः । हैममुद्रामिवेत्युपमा । एकस्मिन् भगवत्युपमेये सुरतरुरिवेति मणिरिवेत्युपमानद्वययोगान्मालोपमा । तारुण्यं महश्च परिणयहेतू वाक्यार्थतया गृहीताविति काव्यलिङ्गम् ॥ ३० ॥ अथ मातापित्रोराग्रहे भगवदुक्तिमाहआगृहानावुपयतिकते कृत्सवात्सल्यखानी
पौनःपुन्यात्प्रकृतिसरलौ क्षीरकण्ठाविवैतौ । लप्स्ये लोकम्पृणगुणखनी चेत्कनी तद्विवक्ष्येऽ
तीक्ष्णोक्त्येत्यागमयत कियत्कालमेषोऽप्यलक्ष्यः॥३१॥ एषोऽप्यलक्ष्यो भगवान् इति 'अतीक्ष्णोक्त्या' मृदुगिरा 'एतौ पितरौ कियत्कालं 'आगमयत' प्रत्यैक्षयत् कालातिक्रमं कारयामासेत्यर्थः । किंविशिष्टावेतौ ? 'उपयतिकृते पौनःपुन्यादागृह्णानौ' भृशाभीक्ष्णेन उपयतिः पाणिग्रहणं तत्कृते आगृह्णानौ आग्रहपरौ । पुनः किंविशिष्टौ ? 'कृत्सवात्सल्यखानी' कृत्स्नं समस्तं वात्सल्यं तस्य खानी। पुनः किंविशिष्टौ? 'क्षीरकण्ठाविव' बालाविव प्रकृतिसरलौ। इतीति किम् ? अहं 'चेद्' यदि लोकम्पृणगुणखनी कनी 'लप्स्ये प्राप्स्यामि । प्रींग्श् तृप्तिकान्त्योः, लोकं प्रीणन्तीति लोकम्पृणाः अचप्रत्ययः, “लोकम्पृणमध्यन्दिनाऽनभ्यासमित्यम्” (३-२-११३) इति मोन्तः लोकम्पृणनिपातः । लोकम्पृणा लोकप्रीतिकारका ये गुणास्तेषां खनीव खनी ताम् 'तत् तदा 'विवक्ष्ये' परिणेष्यामि । भगवतोऽभिप्रायस्तावदेवम्-यल्लोकम्पृणशममार्दवार्जवसन्तोषाधनेकगुणरत्नखनिर्दीझवास्ति, अतोऽहमवसरे तामेवाङ्गीकरिष्यामि । मातापित्रोरभिप्रायस्तु-असौ योग्यां कन्यां यदा लप्स्यते तदा परिणेष्यतीत्याशया पितरौ कियत्कालं प्रतीक्षितौ । गम् आङ्पूर्वः, आगच्छन्तौ प्रयुङ्क्ते णिग, “गमेः क्षान्तौ” (सि० ३-३-५५) आत्मनेपदम् । विवक्ष्ये इति वहीं प्रापणे, विपूर्वः, भविष्यतः स्से ।