________________
३६
जैनमेघदूतम् ।
[प्रथमः
अथ मातापित्रोरुक्तिमाहअसद्भाग्यैः सुरतरुरिवाभूर्वयस्थो विशिष्टः
शाणोन्मृष्टो मणिरिव महोलक्ष्मिपोषं तथापः । तत्त्वं काश्चित्क्षितिपतिसुतां हैममुद्रामिवौजः- स्फूर्जद्वर्णा गुरुहरिकुलापीड ! पाणौकुरुष्व ॥ ३० ॥
हे वत्स ! त्वं 'अस्मद्भाग्यैः' अस्मत्पुण्यैः 'सुरतरुरिव' कल्पवृक्ष इव 'वयस्थः' तरुणोऽभूः । यथा भाग्येन गृहाङ्गणे कल्पतरुर्जायते वर्द्धते तथा लोकोत्तरसुतरत्नप्राप्तिरपि पित्रोर्भाग्येनैव स्यात् । किविशिष्टस्त्वम् ? 'विशिष्टः' सौन्दर्यादिगुणैः श्रेष्ठः । सुरतरुपक्षे विभिः पक्षिभिः श्रेष्ठः । तथा त्वं 'शाणोन्मृष्टः' शाणया उन्मृष्ट उत्तेजितो मणिरिव 'महोलक्ष्मिपोषमापः' महसां तेजसां लक्ष्मीः महोलक्ष्मीः तस्याः पोषस्तमापः “वेदूतोऽनव्ययम्वृदीचडीयुवः पदे” (सि०२-४ -९८) इति इस्वः। कश्चित्तारुण्येऽपि विध्याताग्निरिव निस्तेजाः स्यात् , त्वं तु तेजःश्रिया दीप्यमानोऽसीत्यर्थः । हे 'गुरुहरिकुलापीड!' गुरु महद् हरिकुलं यदुकुलं तस्यापीडः शेखरं 'तत् तस्मात्कारणात् त्वं काञ्चित्क्षितिपतिसुतां हैममुद्रामिव पाणौकुरुष्व' परिणय, पक्षे पाणौ हस्ते यथा हैमी मुद्रा पाणौ हस्ते क्रियते । किंरूपां क्षितिपतिसुताम् ? 'ओजःस्फूर्जद्वर्णा' ओजसा बलेन दीत्या वा स्फूर्जन वर्णो रूपं यस्याः सा ताम् । मुद्रापले ओ. जसा दीप्त्या स्फूर्जन वर्णः सुवर्णम् । यतः- "वर्णः स्वर्णे व्रते स्तुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे । भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः ॥” इत्यनेकार्थः । पाणौकुरुष्वेति विवाहार्थे "नित्यं हस्ते पाणावुद्वाहे” (सि० ३-१-१५) इति गतिसञ्जा। एतावता वत्स ! त्वमस्माकं भाग्यौनिर्विघ्नं तारुण्यवयः प्रापः, तारुण्येऽपि निरुपमानदेदीप्यमानतेजःश्रियं च लब्धवान् , अतो यदि काश्चिदनुरूपरूपां राजकन्यां परिणयसि तदास्माकं सर्वे मनोरथाः