________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं तारुण्येनानुपमसुषमां बिभ्रतं तं प्रतीति
प्राकुर्वातां चतुरपितरौ प्रेरितौ प्रेमपूरैः ॥ २९॥ 'अन्येयुः' अन्यदिवसे 'चतुरपितरौं' चतुरौ दक्षौ पितरौ मातापितरौ 'तं' भगवन्तं प्रति ‘इति' वक्ष्यमाणं 'प्राकुर्वाता' अकथयताम् । पिता च माता च पितरौ "पिता मात्रा वा” (सि० ३१-१२२) सूत्रेण पितृशब्दशेषः । किंविशिष्टौ पितरौ ? 'प्रेमपूरैः' स्नेहपूरैः प्रेरितौ । किं कृत्वा ? 'कामीनीडाक्रीडकोडे' कामिनां चपलत्वात्पक्षिणामुपमानमन्त"दं ज्ञेयम् , अतः कामिनां निवासाय नीडं कुलाय इव नीडं एवंविधं आक्रीडं प्रमदवनं तस्य कोडे उत्सङ्गे वनस्योत्सङ्गाभावात्सादृश्यान्मध्यप्रदेशो लभ्यते, अतः क्रीडावनमध्यभागे 'वृष्णेः कुमारान' यदुकुमारान् क्रीडतो वीक्ष्य । वृष्णिरिति पूर्वपुरुपः अन्धकवृष्णिर्भोजवृष्णिवी, "तेलुग् वा” (सि० ३-२१०८) पूर्वपदलोपः । किंरूपान् कुमारान् ? युवतिभिः स्त्रीमिः समितान् मिलितान् । कानिव ? 'दिवि' स्वर्गे 'स्वःसद इव' देवानिव, यथा स्वर्गे देवाः क्रीडन्ति । किं कुर्वन्तं तं? तारुण्येन 'अनुपमसुषमां' निरुपमानशोभां 'बिभ्रतं' धरन्तम् । अन्यस्मिनहनि अन्येयुः, "पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युस्” (सि० ७२-९८) एस्प्रत्ययः । प्राकुर्वातामिति “गन्धनावक्षेपसेवासाहसप्रतियत्नप्रकथनोपयोगे" (सि० ३-३-७६) इति प्रकथनार्थे आत्मनेपदम् । अत्रोपमालुप्तोपमारूपककाव्यलिङ्गानुप्रासाः। कामीति लुप्तोपमा पक्ष्युपमानचञ्चलत्वधर्मलोपात् । कुमारक्रीडादर्शनं प्रभोस्तारुण्यश्रीवरेण्यत्वजल्पने हेतुरिति काव्यलिङ्गम् । एतावता मातापितरौ श्रीशिवादेवीसमुद्रविजयौ श्रीरैवतकोद्याने कमनीयकामिनीकलितसकलयदुकुलकुमारान् क्रीडतो दृष्ट्वा श्रीनेमिनमभङ्गुरसौभाग्यशोभावरेण्यतारुण्यविभूषिताङ्गमप्यजिह्मब्रह्मपरमसुधास्वादरितविषयविलासं चालोक्य प्रभोः पाणिग्रहणलीलां दिदृक्ष 'इति' क्ष्यमाणं वक्तुमारभेतामित्यर्थः ॥ २९ ॥