________________
जैनमेघदूतम् ।
[प्रथमः अथ सर्वगुणानां तत्रैव सत्तामाहतत्सौभाग्यं तदतुलतरस्तजनानन्दि रूपं
तल्लावण्यं तदपरिमितं ज्ञानमन्यानवापम् । सा मैत्री सा धृतिरविचला ताः कृपाक्षान्तिकान्ति
प्रज्ञावाचः परमपि शुभं लभ्यमत्रैव लभ्यम् ।। २८ ।। 'तत्' सर्वलोकप्रसिद्धं 'सौभाग्यं' सुभगभावः । तदिति सर्वत्र पूर्ववत् । अतुलं तुलारहितं तरो बलम् । तद् जनानानन्दयतीत्येवंशीलं जनानन्दि रूपम् । तद् लावण्यं लोकलोचनाञ्जलिपुटपेपीयमानशोभोपचयः । लवणशब्दो लक्षणया शोभायां वर्त्तते । तत् 'अपरिमितं' परिमाणरहितं ज्ञायते विशेषोऽनेनेति ज्ञानम् । किंविशिष्टं ज्ञानं ? 'अन्यानवापं' अन्यैर्नावाप्यते प्राप्यते इत्यन्यानवापं 'भावाऽकोंः ” (सि. ५-३-१८) घञ्प्रत्ययः, अन्यैरलभ्यमित्यर्थः । सा 'मैत्री' परहितचिन्ता। सा अविचला 'धृतिः' सन्तोषः । ताः कृपाक्षान्तिकान्तिप्रज्ञावाचः । स्पष्टं परमपि 'शुभं' संहननसंस्थानसत्त्वशौर्यादिकं सर्वोत्तमगुणरूपं वस्तु 'लभ्यं' युक्तं तद् ‘अत्रैव' भगवति 'लभ्यं' प्राप्यम् । सुभगस्य भावः सौभाग्यम् , लवणस्य भावो लावण्यम् , “वर्णदृढादिभ्यष्ट्यण च वा" (सि० ७-१-५९) ट्यणप्रत्ययः । शुभमित्यत्र अव्यक्तत्वान्नपुंसकम् । एतावता भगवति सर्वलोकोत्तरगुणसंपदुक्ता । यत:-"संघयणरूवसंठाणवण्णगइसत्तसारऊसासा । एमाइऽणुत्तराई हवंति नामोदया तस्स ॥” इति श्रुतसिद्धेः । अत्र समुच्चयसमानुप्रासाः । समुच्चयेऽपि सद्योगः “समं योग्यतया योगो यदि सम्भावितः कचित् ॥” (का० प्र० १०, १२५) परमपीत्यादि ॥ २८॥
अथ कथाप्रसङ्गमाहअन्येयुः स्वःसद इव दिवि क्रीडतः कामिनीडा
क्रीडकोडे युवतिसमितान् वीक्ष्य वृष्णेः कुमारान् ।