________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं ३३ [तिकाव्यलिङ्गपर्यायोक्तोदात्ताः । तत्र व्योमव्याजान्नक्षत्रलक्षादित्यपह्नुतिः, "प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपकुतिः।” (का० प्र० १०, ९६) संख्यापारागमने यन्नक्षत्रमिषाद्गणनं हेतुर्वाक्यार्थतयोपात्त इति काव्यलिङ्गम् , गुणानन्त्यार्थप्रतिपादनात्पर्यायोक्तम् ।।
अथ भगवतो रूपस्य गुणानां च विशेषवर्णनायाहयैस्तत्तुल्यं पुनरपि परं रूपमामोति सत्तां
नूनं नान्तर्भुवनमणवः सन्ति ते कापि केऽपि । ते नो विज्ञा अपि गुणगणः स्तूयते येरगण्यः
कारं कारं नवनवनवान् वास्तवांस्तस्य भर्तुः ॥ २७ ॥ 'नूनं' निश्चितं 'अन्तर्भुवनं' भुवनमध्ये ते 'अणवः' परमाणवः कापि स्थाने केऽपि न सन्ति यैः' परमाणुभिः पुनरपि 'तत्तुल्यं तस्य भगवतः सदृशं 'परं' अन्यद्रूपं 'सत्तां' अस्तित्वमाप्नोति । यैः परमाणुभिः स्वामिरूपं निष्पन्नं ते यदि विश्वेऽधिका अभविष्यन् तदा स्वामितुल्यं परमपि कापि रूपं निरपत्स्यत् , परं न निष्पद्यते यतस्तन्निष्पादका अणवः कापि न सन्ति । तथान्तर्भुवनं ते 'विज्ञाः' पण्डिता अपि नो सन्ति । भुवनस्यान्तरन्तर्भुवनं “पारे मध्येऽ"-(सि० ३-१-३०) अव्ययीभावः। यैः' विज्ञैः 'वास्तवान्' सत्यान् 'नवनवनवान्' नूतननूतनान् नवान् स्तवान् 'कारं कारं' कृत्वा कृत्वा तस्य भर्तुः 'अगण्यः' गणनातिगो गुणगणः स्तूयते । भगवतो लोकोत्तरानन्तगुणाः सत्यस्तवैयः स्तूयन्ते ते विज्ञा विश्वे न सन्तीत्यर्थः । अभीक्ष्णं करणं पूर्व प्राकाले "ख्णम् चाभीक्ष्ण्ये” (सि०५-४४८) इति णम्प्रत्ययः, वृद्धिः, “वीप्सायां” (सि० ७-४-८०) द्विः। अत्रानुमानानुप्रासौ। अत्र भगवत्तुल्यरूपानुपलब्ध्या हेतुनाधिकाः परमाणवो न सन्तीति साध्यानुमानम् । अगण्यत्वाद्गुणगणाः स्तवनानुमानम् ॥ २७॥