________________
३२
जैनमेघदूतम् । . [प्रथमः इत्यादि । गतभयमिति साकूतविशेषणेन परिकरः । गुणमणीनिति रूपकम् । एतावता भगवति सर्वेऽप्युत्तमगुणा वर्तन्ते इत्यर्थप्रतिपादनात्पर्यायोक्तम् । तान् किं इत्याद्युत्प्रेक्षा । भूर्भुवःस्वःप्रष्ठा देवा इति प्रतिपाद्ये वक्तुमित्यादि मुखेत्यादि क्रमेण प्रतिपादनाद्यथासङ्ख्यम् ॥ २५॥ व्योमव्याजादहनि कमनः पट्टिका सम्प्रमृज्य
स्फूजेल्लमालकशशिखटीपात्रमादाय रात्रौ । रुग्लेखन्या गणयति गुणान् यस्य नक्षत्रलक्षा
दकांस्तन्वन खलु भवतेऽद्यापि तेषामियत्ताम् ॥ २६ ॥ 'कमनः' ब्रह्मा 'अहनि' दिने व्योमव्याजात् पट्टिकां सम्प्रमृज्य स्फूर्जलक्ष्मालकशशिखटीपात्रमादाय रात्रौ रुग्लेखन्या नक्षत्रलक्षादङ्कान तन्वन् 'यस्य' भगवतो गुणान् गणयति । 'खलु' निश्चितमद्यापि 'तेषां गुणानां 'इयत्तां' पारं 'न भवते' न लभते । भूधातुरात्मनेपदी प्राप्त्यर्थे विकल्पेन णिङन्तोऽस्ति । यथा “भूङः प्राप्तौ णि” (सि० ३-४-१९) भावयते भवते रूपद्वयम् । स्फूर्जच्च तत् लक्ष्म च स्फूर्जल्लक्ष्म लाञ्छनमेवालकाः केशा यत्र तत् स्फूर्जलक्ष्मालकमेवंविधं शश्येव खटीपात्रमादाय गृहीत्वा । रुक् कान्तिः सैव लेखनी तया । अयं भावः-ब्रह्मा यस्य गुणसङ्ख्यां कर्तुकामो दिवसे आकाशपट्टिकां मृष्ट्वा निर्जने एकाग्रचित्तत्वाद्रात्रौ स्फूर्जल्लान्छनकेशगुच्छकं चन्द्ररूपं खटीपात्रं गृहीत्वा चन्द्रनिर्गतकिरणदण्डलेखनीभिः शनैः परिदृश्यमानतारकमिषादेको द्वौ त्रय इत्याद्यङ्कान कुर्वश्च भगवतो गुणान् गणयितुं लग्नः । एवमाकाशपट्टिका पूर्णा परं गुणानां पारं न लभते । ततः पुनः प्रातराकाशपट्टिकां मृष्ट्वा रात्रौ तथैव गुणान् गणयति परं पारं नाप्नोति । अतः पुनः पुनराकाशपट्टिकामार्जनादि विधत्ते परं गुणानामद्यापि सङ्ख्यापार नाप्नोति । यत एवमतो भगवतोऽनन्ता गुणा इति । अत्र रूपकाप