________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं असन्धिश्च । अत्र दीपकोपमापर्यायोक्तानुप्रासाः । परमार्थतो भगवतो रूपमसाधारणमित्यर्थस्य प्रतिपादनात्पर्यायोक्तम् ॥ २४ ॥
अथ गुणवर्णनायाहभाण्डागारं गतभयममुं वीक्ष्य हृष्टः समस्तान्
धैर्यौदार्यादिकगुणमणीनत्र वेधा न्यधत्त । तान् किं वक्तुं गणयितुमथ प्रेक्षितुं भूर्भुवःस्व:
प्रष्ठा देवा मुखकरदृशां साक्षिणोऽधुः सहस्रं ॥ २५ ॥ 'वेधाः' ब्रह्मा 'अत्र' भगवति समस्तान् धैर्यौदार्यादिकगुणम. णीन् 'न्यधत्त' न्यासीचक्रे । किंविशिष्टो वेधाः ? 'अमुं' भगवन्तं 'गतभयं' निर्भयं 'भाण्डागारं' कोशं वीक्ष्य हृष्टः । 'भूर्भवःस्वःप्रष्ठा देवाः' भूर्भुवस्स्वर्शब्दाः क्रमेण पातालव्योमस्वर्गवाचकास्तेषु प्रष्ठा मुख्याः 'देवाः' शेपसूर्येन्द्राः। 'तान्' धैयौदार्यादिकगुणमणीन् किं वक्तुं गणयितुं 'अर्थ' अनन्तरं प्रेक्षितुं साक्षिणः सन्तो मुखकरदृशां सहस्रं 'अधुः' धरन्ति स्म । अयं भावः-किलैतानेतावतोऽनन्तान गुणान सुस्थाने न्यस्यामीति चिन्तार्तः सन् धाता श्रीनेमिनमभयभाण्डागारं वीक्ष्य हृष्टो यदा तत्र नाथे तान् समस्तान् गुणान् न्यासे मुमोच तदा "न खलु सुप्रतिष्ठद्वित्रसाक्षिसमक्षमनिरीक्षितो महान्यासो महत्त्वभीरुणा स्वीकार्यः" इति नीति प्रमाणयता भगवता श्रीनेमिना त्रिलोकनाथेन त्रिलोकप्रधानाः शेषसूर्येन्द्राः साक्षिणः कृताः। ते चानन्तगुणा एकमुखेन वक्तुमेककरेण गणयितुं द्वाभ्यां दृग्भ्यां प्रेक्षितुं न शक्यन्ते । अतः शेषाहिरेको द्वौ त्रय इत्यादि गुणसंख्यां वक्तुं सहस्रमुखोऽजनि । सूर्यः पृथक् पृथग न्यस्य गुणान् गणयितुं सहस्रकरो जातः । इन्द्र उपरिस्थो यथा सूर्यो गणयति तथा शेषो वक्ति नवेति द्रष्टुं सहस्राक्षोऽभूदिति । अत्रातिशयोक्तिपरिकररूपकोनेझायथासङ्ख्यपर्यायानुप्रासाः। भाण्डागारमित्यतिशयोक्तिः । “निगीर्याध्यवसानं तु प्रकृतस्य परेण यद् ।” (का० प्र० १०, १००)