________________
जैनमेघदूतम् ।
[प्रथमः
णिनैव' कटीतटेनैव सदृग स्वः स्वर्गस्तस्य वाहिनी नदी तस्याः । श्रोणिशब्दः पुंस्त्रीलिङ्गः। 'शोण:' हदो नेमिनो नाभ्या सदृशतामवति । 'च' अन्यत् 'गोपुरं' प्रतोलीद्वारं नेमिनः 'वक्षसा' हृदयेन सदृशतामञ्चति । 'धुद्रोः' कल्पवृक्षस्य शाखानवकिशलये नेमिनो बाहुपाणिद्वयेन सदृशतां मञ्चति, "अर्थवशाद्विभक्तिपरिणामः” इति न्यायादञ्चतः। शाखा बाहुद्वयेन नवकिशलयं पाणिद्वयेनेत्यर्थः । द्यौः स्वर्गस्तस्य दुर्वृक्षः ॥ २३ ॥ 'पूर्णेन्दुः' पूर्णचन्द्रो नेमिनः श्रीसदनवदनेन सदृशतामञ्चति । 'च' अन्यत् 'अब्जपत्रं' कमलदलं नेमिनो 'दृग्भ्यां' लोचनाभ्यां सदृशतामञ्चति । 'पुष्पामोदः' पुष्पपरिमलो नेमिनो मुखपरिमलैः सदृशतामञ्चति । रिष्टरनं च नेमिनस्तन्वा सदृशतामञ्चति । रिष्ट-अरिष्ट इति शब्दद्वयमस्ति । अयं भावः-"किल श्रीअर्हतां रूपं पादाभ्यामारभ्य चटद्वर्ण्यते । अन्येपां तु शीर्षादारभ्य पतन् ।” इति वृद्धाः। परमेवमपि भगवत्पादाद्यवयवानां यदि पद्मादीन्युपमानानि दीयन्ते तदा तडाग इव समुद्रः खद्योत इव सूर्य इत्यादिवद्धीनोपमादोषः स्याद्भगवत्पादादिभ्यः पद्मादीनामतिहीनत्वान । अत एतद्दोषपरिजिहीर्षया पण्डिताः कचित्प्रदेशे सम्मिलिताः सन्त: 'उपमानमुपमेयाद्विशिष्टतरं स्यात्' इतिन्यायान् पद्मादीन पदार्थान् वान् कृत्वा श्रीनेमिनः पादाद्यवयवानुपमानत्वेन स्थापयन्ति । यथा पद्मं पद्भ्यामित्यादि । तथापि उपमानस्यात्यन्ताधिकत्वेनोपमाधिक्यदोपः स्यात् । यथा"अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः॥” इत्यादिवत् । अतः श्रीनेमिरूपं कथमपि वर्णयितुं न शक्यते इति समर्थितम् । पद्भ्यामित्यादिषु "तुल्याङ्कृस्तृतीयाषष्ठयौ” (सि. २-२--११६) इति तृतीया भवति । उपमेत्यत्र "हस्खोऽपदे वा” (सि० १-२-२२) इति इस्वस्य इखः