________________
सर्गः। श्रीमन्मेरुतुङ्गमूरिविरचितं २९ यस्खास्तापं भवनमुदधेस्तैषदिष्टेऽप्यतार्य
तस्य ग्रैष्मे तपति तपने केन शक्यं तरीतुम् ॥ २२ ॥ 'यस्य' भगवतो रूपं बाल्येऽपि 'लोकातीतोल्लसितसुखमं' वर्त्तते, लोकमतीतातिक्रान्ता उल्लसिता सुखमा अतिशायिनी शोभा यस्य । 'तस्य' भगवतो रूपं यौवने केन वर्ण्यम् ? अपि तु न केनापि । क सति ? 'पुरुहे' प्रभूते 'स्थाग्नि' बले 'श्वयति' वर्द्धमाने सति । यस्य 'उदधेः' समुद्रस्य 'भवनं' पानीयं 'तैपदिष्टेऽपि' पौषमासकालेऽपि 'अतार्य' तरीतुमशक्यम, तस्य उधेर्भवनं 'ग्रैष्मे' ग्रीष्मर्तुसम्बन्धिनि 'तपने' सूर्ये तपति केन तरीतुं शक्यम् । पौषे तु पयस्तोकं भवति, ग्रीष्मे तु ज्येष्ठापाढयोर्वेलावृद्ध्या पयोवृद्धिः । ग्रीष्मस्यायं ग्रैष्मः, "भर्तुसन्ध्यादेरण्” (सि० ६-३-८९) अणप्रत्ययो वृद्धिः । अत्र दृष्टान्तानुप्रासहेतवः ॥ २२ ॥
पद्मं पयां सरलकदलीकाण्ड ऊोयुगेन __ स्वाहिन्याः पुलिनममलं नेमिनः श्रोणिनैव । शोणो नाभ्याश्चति सदृशतां गोपुरं वक्षसा च
धुद्रोः शाखानवकिशलये बाहुपाणिद्वयेन ॥ २३ ॥ पूर्णेन्दुः श्रीसदनवदनेनाजपत्रं च दृग्भ्यां
पुष्पामोदो मुखपरिमलै रिष्टरनं च तन्वा । वर्थेऽर्थोघे क्वचिदुपमितिं दद्युरेवं बुधाश्चे
देतस्याङ्गैर्भवति उपमाधिक्यदोषस्तथापि ॥२४॥ युग्मम्।। 'चे' यदि बुधाः 'क्वचित्' प्रदेशे 'अौंधे' पदार्थसमूहे 'वर्षे वर्णनीये सति एतस्य 'अङ्गैः' अवयवैः एवंप्रकारेण 'उपमिति' उपमानं दास्तथापि उपमाधिक्यदोषो भवति । एवमिति किम् ? 'पद्मं कमलं नेमिनः 'पद्भ्यां' चरणाभ्यां सदृशतां 'अञ्चति' गच्छति सरलकदलीकाण्डो नेमिन ऊर्वोर्युगेन सदृशतामञ्चति । 'स्वाहिन्याः' गङ्गायाः ‘अमलं' निर्मलं पुलिनं नेमिनः 'श्री