________________
जैनमेघदूतम् ।
[प्रथमः वीचयः ? सदृशाः पतनोत्पतनप्लवनादिना वीचीनां तुल्या वयसः पक्षिणो यासु ताः । अत्र श्लेषोपमानोदात्ताः ॥२०॥ अनातोऽपि स्फटिकविमलोऽभूषितः कान्तरूपोऽ
स्तन्यापायी प्रचितकरणोऽशास्त्रदृश्वा मनीषी । किं किं ब्रूमः शुचिरुचिरसौ शैशवेऽपि प्रकारे__णापत्पोषं त्वमिव मरुता सर्वलोकोत्तरेण ॥ २१ ॥
हे मेघ! वयं किं किं ब्रूमः ?' आश्चर्यपूरिताः किमपि वक्तुं न शक्नुम इत्यर्थः । 'असौ' भगवान् शैशवेऽपि' बाल्येऽपि सर्वलोकोत्तरेण प्रकारेण पोषं आपत् । सर्वे च ते लोकाश्च सर्वलोकाः सर्वलोकेभ्यः उत्तर उत्कृष्टः सर्वलोकोत्तरः। तमेव विशेषणद्वारेण प्रकारमाहकिंविशिष्टः? अस्नातोऽपि स्फटिकविमलः,अभूषितस्सन् कान्तरूपः, तथाविधसहोत्थातिशयविशेषाद्भगवद्देहस्य मलवेदादिदोषोज्झितत्वादद्भुतरूपत्वाच्च । 'अस्तन्यापायी प्रचितकरणः' न स्तन्यमापिबतीयेवंशीलः सन् “अजातेः शीले” (सि० ५-१-१५४ ) णिन्प्रत्ययः । प्रचितान्युपचितानि करणानीन्द्रियाणि यस्य सः, निजाङ्गुठपीयूषपानेनैव पुष्टत्वात् । पुनः कथंभूतः ? 'अशास्त्रदृश्वा' न शास्त्रं दृष्टवानित्यशास्त्रदृश्वा सन् "दृशः कनिप्” (सि० ५-१-१६६) कनिप्प्रत्ययः, वन्। 'मनीषी विद्वान् , जन्मतोऽपि ज्ञानत्रयकलितत्वात् । क इव ? 'त्वमिव' यथा त्वं 'सर्वलोकोत्तरेण सर्वलोके उत्तरेण उत्तरदिगुद्भवेन सर्वलोकप्रधानेन वा 'मरुता' वायुना पोषं पुष्टिं प्राप्नोषि । किंविशिष्टोऽसौ ? 'शुचिरुचिः' पवित्रकान्तिः । शुचिरुचिः शुचौ आषाढमासे रुचिर्यस्यासौ शुचिरुचिः । एतावता बाल्येऽपि भगवतः समस्तलोकासाधारणस्वरूपमुक्तम् । अत्र विभावनाश्लेषोपमालङ्काराः ।। २१ ॥ लोकातीतोल्लसितसुखमं यस्य बाल्येऽपि रूपं
तस्य स्थानि श्वयति पुरुहे यौवने केन वर्ण्यम् ।