________________
सर्गः ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
२७
मानसमिन्द्रियाणि च प्रसन्नानि जातानीत्यर्थः । स्वशब्द आत्मामीयज्ञातिधनार्थवृत्तिः, तेष्वत्र ज्ञातिवाची गृहीतः । 'तु' पुनः 'अमराः' देवा रत्नस्वर्णप्रकरं 'सौधपूरमवर्षन्' सौधं यावता पूर्यते तावन्तं वृष्टा इत्यर्थः । सौधं यावता पूर्यते तावद्वर्षणं पूर्व, "वृष्टिमाने उलुक् चास्य वा" ( सि० ५ - ४ - ५७ ) णम्प्रत्ययः । 'विश्वे' समस्ता लोकाः 'प्रमदं' हर्षमदधुः । अत्रोत्प्रेक्षासहोक्तिसमुश्ञ्चयानुप्रासाः | स्वस्यामान्तरित्यादि सहोक्तिः, “सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥" (का० प्र० १०, ११२ ) तथा "समुच्चयोऽसौ स त्वन्यो युगपद् या गुणक्रिया || ” (का० प्र० १०, ११६ ) ॥ १९ ॥
ये ये भावाः प्रियसुतकृते प्रक्रियन्ते प्रसुभिस्तांस्तांस्तस्यातनिषत हरिप्रेरिता देव्य एव । नानारूपाः सदृशवयसो हंसवद्वीचयस्तं
देवा एवानिशमरमयत्केलिवापीषु भक्त्या ॥ २० ॥
'प्रसूभिः ' मातृभिः 'प्रियसुतकृते अभीष्टपुत्रवृद्ध्यर्थं ये ये 'भावाः ' स्नपनमण्डनक्रीडनादयः 'प्रक्रियन्ते' प्रारभ्यन्ते 'हरिप्रेरिताः ' इन्द्रादिष्टा: 'देव्य एव' अप्सरस एव 'तस्य' भगवतः 'तांस्तान्' भावान् 'अतनिषत' व्यस्तारयन् । हरिप्रेरिता देवा एव केलिवापीषु भक्त्या 'तं' भगवन्तं 'अनिशं' निरन्तरं अरमयन् । किंविशिष्टा देवा: ? 'नानारूपाः' नानाप्रकाराणि रूपाणि येषां ते नानारूपाः । पुनः किंविशिष्टाः ? ' सदृशवयसः' सदृशं भगवतस्तुल्यं वयो येषां ते सदृशवयसः । किंवत् ? हंसवत् । यथा हरिप्रेरिता वीचयः केलिवापीषु भक्त्या विच्छित्त्या हंसं रमयन्ति । हरिर्वायुः, 'हरिर्दिवाकरसमीरयोः ॥ यमवासवसिंहांशुशशाङ्ककपिवाजिषु । पिङ्गवर्णे हरिद्वर्णे भेकोपेन्द्रशुकाहिषु ॥ " ( हे० अ० ४५०-४५१ ) इत्यनेकार्थः । किंविशिष्टा वीचयः ? 'नानारूपाः' अनेकप्रकाराः । पुनः किंविशिष्टा