________________
जैनमेघदूतम् ।
[प्रथमः
मारप्रमुखेन्द्राः 'च' अन्यद् द्वात्रिंशद् व्यन्तरेन्द्राः 'उपनव' दश 'तिविषाधीशितारः' तिविषस्य वर्गस्याधीशितारः स्वामिनो वैमानिकदेवेन्द्राः 'रवीन्दू' सूर्यचन्द्रौ। किंविशिष्टाः? 'भक्तिप्रहा' भक्तौ प्रह्वाः परायणाः । विशिन इति विंशतिर्मानमेषां विंशिनः, "डिन्” (सि० ७-१–१४७ ) इति डिन्प्रत्ययः, इन्, "विंश. तेस्तेर्डिति" (सि० ७-४-६७) तिलोपः । उप समीपे नव येषां येभ्यो वा उपनव, “अव्ययम्” (सि० ३-१-२१) इत्यनेन बहुव्रीहिः । अत्र यद्यपि उपनवशब्देनाष्टौ दश च लभ्यते परमत्र दशसंख्यया प्रयोजनमिति दशसंख्यार्थो गृहीतः। अतिहरीत्यत्र “विभक्तिसमीपसमृद्धिव्यूद्ध्यर्थाभावात्ययाऽसंप्रतिपश्चात्कमख्यातियुगपत्सदृक्सम्पत्साकल्यान्तेऽव्ययम्” (सि० ३-१३९) इत्यव्ययीभावः । अत्रानुप्रासस्वभावोक्त्युदात्ताः ॥ १८ ॥ उच्चस्थानं दुदुवुरिव यं द्रष्टुकामा ग्रहास्ते
खस्यामान्तःकरणकरणैः काममाशाः प्रसेदुः । रत्नवर्णप्रकरममराः सोधपूरं त्ववर्षन्
विश्वे लोकाः प्रमदमदधुर्यस्य पुण्येऽवतारे ॥ १९ ॥ 'यस्य' भगवतः 'पुण्ये' पवित्रेऽवतारे ग्रहाः 'उच्चस्थानं' उच्चभवनं उच्चांशं वा 'दुदुवुः' गताः । “अजवृषमृगाङ्गनाकर्कमीनवणिजांश. केष्विनाद्यञ्चाः । दशशिख्यष्टाविंशतितिथीन्द्रियनिधनविशेषु ॥" इति ग्रहाणामुच्चभवनानि । उत्प्रेक्ष्यते-'यं भगवन्तं 'द्रष्टकामा इव' द्रष्टुं कामोऽभिलाषो येषां ते द्रष्टकामाः, "तुमश्च मनःकामे" (सि० ३-२-१४०) इति मलोपः । अन्योऽपि यः किञ्चिहिदृक्षुः स्यात् स उच्चस्थानमधिरोहति । 'आशा' दिशः 'स्वस्य' ज्ञातेः 'अन्त:करणकरणैः' अन्तःकरणं चित्तं करणानीन्द्रियाणि तैः 'अमा' सह 'काम' अत्यर्थ 'प्रसेदुः' प्रसन्ना बभूवुः । भगवतोऽवतारे दिशो रजोवादलाधभावेन प्रसन्ना जाताः । खस्य स्वजनवर्गस्य च