________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं २५ जन्मे यस्य त्रिजगति तदा ध्वान्तराशेविनाशः
प्रोड्योतश्चाभवदतितरां भास्वतीवाभ्युदीते । अन्तर्दुःखोत्करमुरु सुखं नारका अप्यवापुः
पारावारे विरससलिले स्वातिवारीव शुक्लाः ॥ १७ ॥ 'तदा' तस्मिन् काले 'यस्य' भगवतः 'जन्मे जाते सति ध्वान्तराशेविनाशः 'च' अन्यत् 'अतितरां' अत्यर्थ 'प्रोड्योतः' प्रकाशश्चाभवत् । कस्मिन्निव ? 'भास्वतीव' यथा भास्वति सूर्येsभ्युदीते सति ध्वान्तराशेर्विनाशो भवति प्रोड्योतश्च । नारका अपि 'अन्तर्दुःखोत्कर' दुःखोत्करस्य मध्ये 'उरु' गुरुतरं सुखं 'अवापुः' प्राप्ताः । का इव ? 'शुक्ला इव' यथा शुक्लाः 'विरससलिले' क्षारनीरे 'पारावारे' समुद्रे 'स्वातिवारि' स्वातिनक्षत्रसंबन्धि वारि जलं प्राप्नुवन्ति । जन्मशब्दोऽकारान्तोऽप्यस्ति । अभ्युदीते इत्यत्र ईडच् गतौ, ईधातुः अभि उत्पूर्वः क्तप्रत्ययान्तः । दुःखोत्करस्यान्तरन्तदुःखोत्करम् , “पारे मध्येऽग्रेऽन्तः पष्ठया वा” (सि०३-१-३०) इति समासः। अत्र पर्यायविरोधोपमानानि । “एकं क्रमेणानेकस्मिन् पर्यायोऽन्यस्ततोऽन्यथा ।” (का० प्र० १०, ११७) अन्तर्दुःखोत्करमित्यत्र विरोधो द्रव्यगुणयोः ॥ १७ ॥ भक्तिप्रदा भवनपतयो विशिनो व्यन्तरेन्द्रा
द्वात्रिंशचोपनव तिविषाधीशितारो रवीन्दु । सङ्गत्य खःशिखरिशिखरे ते चतुःषष्टिरिन्द्रा
जन्मस्त्रात्रोत्सवमतिहरि स्वामिनो यस्य तेनुः ॥१८॥ ते चतुःषष्टिरिन्द्राः 'स्वःशिखरिशिखरे' स्वः स्वर्गस्तस्य शिखरी मेरुस्तस्य शिखरे शृङ्गे 'सङ्गत्य' मिलित्वा यस्य स्वामिनो जन्मस्नात्रोत्सवं 'अतिहरि तेनुः' विस्तारयामासुः, हरीणामिन्द्राणां ख्यातियथाभवतीत्यतिहरि, इन्द्राणां यादृशः कृतो ज्ञायते तादृशः कृत इत्यर्थः । ते के ? 'विशिनः' विंशतिमात्राः 'भवनपतयः' असुरकु