________________
२४
जैनमेघदूतम् ।
[प्रथमः
शेषाणि वस्तुनि येन स तम् । अत्र यद्यपि भगवतोऽवधिज्ञानित्वेन तदा गार्हस्थ्येऽशेषवस्तुज्ञानं नास्ति तथापि "भाविनि भूतवदुपचारः” इत्यजिह्मब्रह्मलीलानिस्तुषवैराग्योन्मेषमुख्यकारणैरवश्यंभावितया सर्वलोकेभ्योऽप्यधिकतया च तस्य सर्वज्ञत्वमेव प्रत्यक्षं विव. क्षितम् । द्वाविंशमत्र द्विविंशतिः। द्वौ च विंशतिश्च द्वाविंशतिः, "द्विव्यष्टानां द्वात्रयोऽष्टाः प्राक्शतादनशीतिबहुव्रीहौ” (सि० ३२-९२) द्वा आदेशः । द्वाविंशते: पूरणो द्वाविंशः "संख्यापूरणे डट" (सि० ७-१-१५५) “विंशतेस्तेर्डिति” (सि० ७-४-६७) तिलोपः। “डित्यन्त्यस्ख-" (सि०२-१-११४) । अत्र रूपकभाविकानुप्रासाः। दिव्यज्ञानेति भाविकं, “प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः। तद्भाविकम्” । (का०प्र०१०,११४) इति॥१५॥ यस्य ज्ञात्वा जननमन कम्पनादासनाना
मास्यां तासामिव न सहतां पूज्यपूजाक्षणेऽसिन् । दिकन्याः षट्शरपरिमिताः साङ्गजायाः सवित्र्याः
सम्यक् चक्रुः कनककदलीसबगाः सूतिकर्म ॥ १६ ॥ षट्शरपरिमिताः 'दिक्कन्याः' दिक्कुमार्य आसनानां कम्पनाद् 'यस्य' भगवतः ‘अनघं निष्पापं 'जननं' जन्म ज्ञात्वा 'साङ्गजायाः' सपुत्रायाः 'सवित्र्याः' मातुः सम्यक् सूतिकर्म चक्रुः । शराः पञ्च "अङ्कानां वामतो गतिः” इति गणनात् षट्शरेति षट्पञ्चाशत् । किंविशिष्टानामासनानाम् ? उत्प्रेक्ष्यते-'अस्मिन् विवक्षिते पूज्यपूजायाः क्षणे प्रस्तावे 'तासां दिकन्यानां 'आस्यां' उपवेशनं न सहतामिव । अस्मिन् पूज्यपूजाक्षणे एता उपविश्य कथं स्थिताः सन्ति ? इत्यसहमानानीवासनानि कम्पितानीति भावः। किंविशिष्टा दिकन्याः ? 'कनककदलीसागा' सुवर्णरम्भागृहगताः। सहतामित्यत्र षहण मर्षणे इति चौरादिकधातुः। "युजार्न वा” (सि०३४-१८) इति णिविकल्पः । अत्रोत्प्रेक्षाखभावोक्त्यनुप्रासाः ॥१६॥