________________
सर्गः 1]
श्रीमन्मेरुतुङ्गसूरिविरचितं
२३
वंशे 'मूर्ती:' मूर्तिमन्तः 'दिशां नायकाः' दिक्पाला इव ये दश दशार्हाः, वर्त्तन्ते इत्यध्याहारः । 'च' अन्यत् 'तेषां' दशार्हाणां 'आद्यः' प्रथमः श्रीसमुद्रोऽस्ति । किंविशिष्टः ? 'क्षितिपतिगुरुः ' क्षितिपतिषु नृपेषु गुरुः श्रेष्ठः । पुनः किंविशिष्टः ? श्रीशिवाप्रेयसी' श्रीशिवादेवी नाम्नी प्रेयसी पत्नी यस्यासौ श्रीशिवाप्रेयसी । ईयो बहुव्रीहित्वाद् " गोवान्ते ह - " ( सि० २ - ४ - ९६ ) इत्यादिना न ह्रस्वः । ततः “दीर्घङयाब्व्यञ्जनात्सेः ” (सि० १- ४-४५) सिलोप एव । पुनः किंविशिष्टः ? 'प्राज्ञः' निपुणः, अथवा प्रकृष्टा आज्ञा यस्य स तथा । 'द्वैधं' द्वाभ्यां प्रकाराभ्यां 'सुकृतविजयी' सुकृतेन पुण्येन विजयी विजयवान् धर्मविजयीत्यर्थः । पक्षे सुष्ठु आनुकूल्येन कृतः सुकृतः, सुकृतो विजयो विजयशब्दो विद्यते यस्य श्रीसमुद्रशब्दस्य स तथा श्रीसमुद्रविजय इत्यर्थः । द्वैधं 'सुप्रजाः' शोभना प्रजाः लोकः सन्ततिर्वा यस्य सः । " प्रजाया असू” (सि० ७-३१३७ ) इत्यनेन सुप्रजस् जातम् । द्वैधं श्रीसमुद्रः श्रिया समुद्रो यद्वा श्रीसमुद्र इति नाम । अत्रोत्प्रेक्षारूपकश्लेषानुप्रासाः ॥ १४ ॥
सारस्वमैर्मनुपरिमितैः सूचितस्तस्य सूनुः श्रीमान्नेमिर्गुणगणखनिस्तेजसां राशिरस्ति । यं द्वाविंशं जिनपतिमिह क्षोणिखण्डे प्रबुद्धा दिव्यज्ञानातिशयकलिताशेषवस्तुं दिशन्ति ।। १५ ।।
1
'तस्य' श्रीसमुद्रस्य सूनुः श्रीमान्नेमिरस्ति । किंविशिष्ट: १ मनुपरिमितैः सारखनैः 'सूचितः कथितः । मनवचतुर्दश तत्परिमितैश्चतुर्दशभिरिति । पुनः किंविशिष्टः ? ' गुणगणखनि:' गुणगणानां खनिरिव गुणगणखनिः । तेजसां राशिः समूह इव । ' इह क्षोणिखण्डे' 'प्रबुद्धाः' विद्वांसः 'यं' भगवन्तं द्वाविंशं जिनपतिं 'दिशन्ति' कथयन्ति । किंविशिष्टं यम् ? 'दिव्यज्ञानातिशयकलिताशेषवस्तुं' दिव्यः स्वर्गसम्बन्धी प्रधानो वा यो ज्ञानातिशयस्तेन कलितान्य