________________
२२
जैनमेषदूतम् ।
[प्रथमः
बहिरारादितरैः” (सि० २-२-७५) इति पञ्चमी । 'आगोपगोपं अयं जनस्तव मत्रस्येव स्मरति । यथा मनः स्मर्यते तथेत्यर्थः। गां पृथ्वीं पातीति गोपो राजा, गाः पशून् पातीति गोपो गोपालः, गोपाश्च गोपाश्च गोपगोपाः, आमर्यादायाम् , गोपगोपेभ्य आ आगोपगोपं आगोपालभूपालमिति । 'विधात्रा' ब्रह्मणा निखिला 'भूतसृष्टिः' प्राणिसृष्टिः 'भवति' त्वयि 'न्यासीचक्रे' निहिता त्वय्यायत्तीकृता, त्वं चेन्जीवयसि तदा जीवति नान्यथा इत्यर्थः । यथान्योऽपि विश्वासार्ह वस्तु न्यासीकरोति । यतस्त्वमेवं परोपकाराद्यनणुगुणैरसाधारणः 'तत् तस्मात्कारणादहं त्वां किमपि भाषे वच्मि । हे करुणाकेलिपात्र 'अवधेहि' सावधानो भव । मध्येभुवनमिति भुवनस्य मध्ये मध्येभुवनं "पारे मध्येऽन्तः षष्ठया वा" (सि०३-१-३०) इत्यव्ययीभावः। तव मत्रस्येवति "स्मृत्यथेदयेशः” (सि०२-२-११) इति कर्मस्थाने षष्ठी । आगोपगोपमिति "पर्यपाबहिरच् पञ्चम्या" (सि० ३-१-३२) इति पञ्चम्यन्तोऽव्ययीभावः । अत्र विभावनोपमानपर्यायालङ्काराः । अनलङ्कारेत्यत्र विभावना, "क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विमावना ॥” (का०प्र० १०,१०७) भूतसृष्टेासीकरणेन दुःखिताया ममापि हितं तव कर्तुं योग्यमिति पर्यायकथनात्पर्यायोक्तम् ॥१३॥
मेघस्याप्रे राजीमती स्वस्वरूपप्रस्तावनार्थ श्रीनेमिचरितं मूलादाहश्रीमान् वंशो हरिरिति परां ख्यातिमापत्क्षितौ य
स्तमिन् मूर्ती इव दश दिशां नायका ये दशार्हाः। तेषामायः क्षितिपतिगुरुः श्रीशिवाप्रेयसी च
पालो द्वैधं सुकृतविजयी सुप्रजाः श्रीसमुद्रः ॥ १४ ॥ या श्रीमान् वंशः 'क्षितौ पृथिव्यां हरिरिति परां ख्याति' प्रसिदि 'आपत्' हरिवंश प्रति प्रसिद्धो बभूवेत्यर्थः । तस्मिन्'