________________
सर्गः ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
दानात्कल्पद्रुमसुरमणी तौ त्वयाऽधोऽक्रियेतां कस्तुभ्यं न स्पृहयति जगञ्जन्तुजीवातुलक्ष्म्यै ॥ १२ ॥
२१
कामं मध्येर्भुवनमनलङ्कारकान्ता अनु त्वन्मत्रस्येव स्मरति च तवागोपगोपं जनोऽयम् । न्यासीचक्रे भवति निखिला भूतसृष्टिर्विधात्रा
aai भाषे किमपि करुणाकेलिपात्रावघेहि ॥ १३ ॥ हे 'जीमूत !' हे मेघ! त्वं 'अनन्यसाध्योपकारैः प्रथितमहिमा ' वर्त्तसे, न अन्यैः समुद्रादिभिरपि साध्या अनन्यसाध्या उपकाराः सचराचरजीवलोक सेचनभीष्म ग्रीष्मातपोपशमनसकलतृणधान्यनिष्पादनादयस्तैः प्रथितो विख्यातो महिमा यस्येति । कः पुमान् त्वां वीक्ष्य स्वे दृशौ प्रसृतिसदृशौ नो विधत्ते ? । कुब्जितः पाणिः प्रसृतिरुच्यते । तौ कल्पद्रुमसुरमणी त्वया दानादधोऽक्रियेतां जितावित्यर्थः । नात्तौ सर्वलोकप्रसिद्धौ त्वया । कः पुमांस्तुभ्यं न स्पृहयति ? | किंविशिष्टाय तुभ्यम् ? ' जगज्जन्तुजीवातुलक्ष्म्यै ' जगज्जन्तूनां जीवातुर्जीवनौषधं लक्ष्म्यो गर्जितविद्युज्जलादिका यस्य तस्मै । लक्ष्मीशब्दस्य बहुत्वे वर्त्तमानत्वात् “पुमनडुन्नौपयोलक्ष्म्या एकत्वे ” (सि० ७-३१७३) इत्यनेन कच् । तथा ड्यन्तत्वाभावात् " गोश्चान्ते हखोSनंशिस - " ( सि० २-४ - ९६ ) इत्यादिना हवो न । ततः पुल्लिङ्गविशेषणत्वेऽपि लक्ष्मीशब्दस्य स्त्रियां वर्तमानत्वेन चतुर्थ्येकवचनस्य "स्त्रीदूत : ” (सि० १-४ - ३९) इति दैआदेशे लक्ष्म्यै इति प्रयोगः । प्रसृतिसदृशावित्यत्र " त्यदाद्यन्यसमानादुपमानाव्याप्ये दृशष्टक्सको च” (सि० ५-१-१५२) इति किप् । सदृश्शब्दो व्यञ्जनान्तः । तुभ्यमित्यत्र "स्पृहेर्वाप्यं वा ” (सि० २-२ - २६) इति चतुर्थी । अत्रोदात्तस्वभावोक्त्यनुप्रासः ||१२|| काममिति । हे मेघ ! ' मध्ये - भुवनं' भुवनस्य मध्ये 'अनलङ्कारकान्ता' अलङ्कारं विना कान्ताः सुभगाः 'त्वदनु' भवतः पश्चात् । त्वदिति “प्रभृत्यन्यार्थदिक्शब्द