________________
२०
जैनमेघदूतम् ।
[प्रथमः सारं जलं मुञ्चन् विश्वं विश्वं 'बायसे' पालयसि । धाराधरश्चेत् सरलधाराधोरणीभिर्जलं मुञ्चति तदा राजानोऽपि प्रजा रक्षन्ति, सर्वे वर्णाः स्वस्वमर्यादा न त्यजन्ति, मातापितरौ सस्नेहमपत्यानि पुष्णन्ति, धर्मकर्माचारव्यवहारव्यवसायसौजन्यसौहार्दादीनि सर्वकार्याणि प्रवर्त्तन्त इति घनस्य पालकत्वमपि न निषेध्यम् । 'तत् तस्मात्कारणात् त्वं 'अभिनवतमः' अत्यन्तनवीनः कोऽपि त्रयीरूपधर्ता देवो वर्त्तसे । अयं भावः-लोके परमेश्वरस्त्वेकोऽपि सृष्ट्यादित्रयं करोतीति कविरूढिर्वर्तते। यतो रघुः-"नमो विश्वसृजे पूर्व विश्वं तद्नु बिभ्रते । अथ विश्वस्य संहनें तुभ्यं त्रेधात्मने नमः ॥” परमपरस्त्रयीरूपधर्ती देवो विषयाभिष्वङ्गरूपस्य रजसो रजोगुणस्य वृद्धिमुत्पादयन् ब्रह्मरूपेण विश्वं सृजति । तथा क्रोधरूपं तमोगुणं वर्द्धयन् रुद्ररूपेण विश्वं क्षपयति । तथा पुण्येच्छारूपं सत्त्वगुणं स्वीकुर्वन् विश्वं त्रायते । अतिशयेनान्यैश्च नम्यते । अयोनिश्च प्रोच्यते । त्वं पुनः प्रोक्तयुक्त्या एतद्वैलक्षण्येन विश्वसर्गादिषु प्रवर्त्तसे, अतिशयेन नमसि, धूमाचोत्पद्यसे, इति कोऽपि नवीनस्त्वं त्रयीरूपधा देव इति । अत्रानुप्रासश्लेषव्यतिरेकपर्यायोक्तदीपकोदात्ताधलङ्काराः । तत्र त्रयीरूपोपमानादुपमेयस्याधिक्यप्रतिपादनाव्यतिरेकः । "उपमानाद्यदन्यस्य व्यतिरेकः स एव सः।" (का० प्र० १०, १०५) इति । रजसः शान्तिमापादयन् सकोचेनेत्यादिना पृथ्वीसेचनावर्षणलक्षणार्थपर्यायकथनात्पर्यायोक्तम् । बहीषु क्रियाखेककर्तृत्वाद्दीपकम् । मेघस्य सर्वलोकविख्यातदेवत्रयीतोऽप्याधिक्यप्रतिपादनेनोदात्तम् , “उदात्तं वस्तुनः संपत्” (का० प्र० १०, ११५) इति ॥ ११ ॥
अथ विभक्तिसप्तकप्रयोगेण मेघस्तवनाय वृत्तद्वयमाहत्वं जीमूत ! प्रथितमहिमानन्यसाध्योपकारैः .. कस्त्वां वीक्ष्य प्रसूतिसदृशौ स्वे दृशौ नो विधत्ते । ।