________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचिवं कस्येव ? 'रवेरिव' यथा रवेः सूर्यस्य गतिः 'दैव्ये मार्गे' आकाशमार्गेऽन्याबाधा स्फुरति । 'ते' तव 'खागतं' सुखागमनं वर्तते ? । राजहंसावित्यत्र "पुरुषः स्त्रिया" (३-१-१२६) इति पुरुषशेष:, राजहंसीशब्दलोपः । दैव्ये देवानामयं दैव्यः, "देवाद् यच्च" (सि० ६-१-२१) इति यम् । अत्र दैव्ये मार्ग इत्याकाशवाचकत्वं सुरपथ इति प्रसिद्धेः । अत्रोपमापर्यायोक्तस्वभावोक्त्यनुप्रासाः । अव्याबाधेत्यादेः तव वृष्टेरन्तरायो नास्तीत्यर्थस्य पर्यायेण कथनात् तत्पर्यायोक्तम् । “पर्यायोक्तं विना वाच्यवाचकत्वेन वस्तु यत् ।" (का० प्र० १०, ११५) ॥ १० ॥
अथ येन किमपि कार्य कारयितुं चिन्त्यते, तस्य पूर्व वर्णनं विधीयते इति राजीमत्यपि मेघं वर्णयतिविश्वं विश्वं सृजसि रजसः शान्तिमापादयन् यः
सङ्कोचेन क्षपयसि तमःस्तोममुनिहुवानः । स त्वं मुश्चन्नतिशयनतस्त्रायसे धूमयोने!
तद्देवः कोऽप्यभिनवतमस्त्वं त्रयीरूपधर्चा ॥११॥ हे 'धूमयोने!' हे मेघ! यस्त्वं रजसः' रेणोः शान्ति 'आपादयन उत्पादयन्नर्थात्पृथिवीं सिञ्चन् 'विश्वं समस्त्रं 'विश्वं जगत् 'सृजसि निष्पादयसि । जलस्य साक्षात्सृष्ट्या तृणधान्यलतावृक्षादीनां तदुद्भवत्वेन तिर्यग्पक्षिमनुष्यादीनां तृणादिभ्यो वृद्ध्या जनस्य साक्षात्पारम्पर्येण च जगत्लष्टुत्वं रूढ्या न विरुद्धमिति । यस्त्वं 'संकोचेन' अभावलक्षणेन 'तमस्तोम' अन्धकारसमूह 'उन्निडुवानः' सन् उत्प्राबल्येन निढुवानः स्फेटयन् सन् , अर्थादवर्षन् विश्वं विश्वं 'क्षपयसि भयं नयसि संहरसीत्यर्थः । मेघस्य सङ्कोचे दुर्दिनाभावस्तदभावाच विश्व. क्षयः, अवृष्ट्या तावजलस्य साक्षात्क्षयः, तत्क्षयाच सकललोकक्षय इति साक्षात्पारम्पर्येण च धनस्य संहर्तृत्वमपि न विरुद्धम् । यस्त्वं 'अतिशयनतः अत्यर्थ नम्रः स वं लोकरूख्या गुहूचीसत्त्ववत्