________________
१६
जैनमेघदूतम् ।
[प्रथ
-
मुभ्यति तन ज्ञायते । किंविशिष्टां मां निर्मोकत्वचं च ? ' तदास नीमपि तं नाथमासजामीत्येवंशीला ताम्, पक्षे तं सर्प आसज त्येवंशीला तां तदासक्तामपीत्यर्थः । पुनः किंविशिष्टां मां ? 'ल लघ्वीम्, पक्षेऽल्पभाराम् । 'यद्वा' इत्युत्तरार्द्धम् । 'यद्वेति' हेतुज्ञाने देवे 'विमुखीभावं दधति' सति प्रतिकूले सति 'आप्तोऽपि' अवभ कोऽपि 'अमित्रेत्' अमित्रमिवाचरेत् शत्रुर्भवतीत्यर्थः । एतत्सम नायाह – 'तर्णस्य' वत्सस्य 'नियमने' बन्धने 'मातृजङ्घा' गोजा किमु कीलो न स्यात् ? अपि तु स्यादेव । किल गोष्ठेषु दोग्धा स्तन्यं पिबन्तं वत्सकं गोजङ्घायां बद्धा गोदोहं कुर्वन्तीति स्थितिः अत्र यथा गौर्वत्सलापि विधिवशान्निजवत्सस्यैव जङ्घाद्वारेण बन्धहे तुर्भवति तथाऽसावपि भगवानाप्तोऽपि दैवप्रातिकूल्यान्मां मुक्तवानि त्यर्थः । अत्राहिरिवेति निर्मोकत्वचमिवेत्युपमा । लघुमित्यादि श्लेषः । ज्ञोऽपीति विरोधः । न जाने इति निषेधः । यद्वेत्यर्थान्त रन्यासः । तत्र — “विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः ।' (का० प्र० १०, ११० ) " निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया || ” (का० प्र० १०, १०६ ) इति । " सामान्यं वा विशेषो वा तदन्येन समर्थ्यते । यत्र सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा || ” ( का० प्र० १०, १०९ ) इति । अथवा तर्णस्येत्यादि स्वभावोक्तिः । “स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥” (का० प्र० १०, १११ ) इत्यादि ॥ ७ ॥ तप्ताश्मेव स्फुटति हि हिरु प्रेयसो हन्ममैततत्कारुण्यार्णवमुपतदं प्रेषयाम्यब्दमेतम् । मन्दं मन्दं स्वयमपि यथा सान्त्वयत्येष कान्तं मत्सन्देशैर्दवमिव दवप्लुष्टमुत्सृष्टतोयैः ॥ ८ ॥
"
एतन्मम 'हृत्' हृदयं 'हि' स्फुटं 'प्रेयसो हिरुग्' वल्लभं विना 'तप्ताश्मेव' तप्तपाषाण इव 'स्फुटति' विदीर्यते । 'तत्' तस्मात्कार