________________
सर्गः। श्रीमन्मेरुतुङ्गसूरिविरचितं णादहं 'एतं' पुरतो दृश्यमानं 'अब्दं मेघं 'उपतदें तस्य प्रेयसः समीपे प्रेषयामि । किंविशिष्टमब्दम् ? 'कारुण्यार्णवं' कृपासमुद्रम् । यथा 'एषः' अब्दः 'मत्सन्देशैः' मम वाचिकैः स्वयमपि मन्दं मन्दं 'कान्तं प्रेयांसं 'सान्त्वयति' सामप्रयोगपूर्वकं शमयति । कमिव! दवमिव, यथैष मेघः 'उत्सृष्टतोयैः' मुक्तजलैः 'दवप्लुष्टं दवानलदग्धं दवं वनं सान्त्वयति शमयति । अत्र हिरुग्विनार्थे । प्रेयस इति "शेषे” (सि० २-२-८१) षष्ठी । उपतदमित्यत्र तस्य समीपमुपतदं “शरदादेः” (सि० ७-३-९२) इति समासान्तोऽस्प्रत्ययः । पश्चाद् "विभक्तिसमीपसमृद्धि-" (सि० ३-१-३९) इत्यादि सूत्रेणाव्ययीभावसमासः। ततः सप्तमीडिप्रत्ययस्य "सप्तम्या वा" (सि० ३-२-४) इति सूत्रेणाम् । अत्रोपमारूपकानुप्रासाः। अत्र रुष्टमिति कान्तस्य विशेषणमनुक्तमपि शेयम्, अन्यथा सान्त्वनायोगात् । तेन हीनपदत्वं नाम नालङ्कारदोषश्चिन्त्यः ।।८।। ध्यात्वैवं सा नवघनघृता भूरिवोष्मायमाणा
युक्तायुक्तं समदमदनावेशतोविन्दमाना। अत्रासारं पुरु विसृजती वारि कादम्बिनीव
दीना दुःखादथ दकमुचं मुग्धवाचेत्युवाच ॥९॥ 'अर्थ' अनन्तरं 'सा' राजीमती 'दकमुचं' मेघं 'मुग्धवाचा' मनोहरवचनेनेति वक्ष्यमाणयुक्त्या उवाच । किं कृत्वा ? 'एवं पूर्वोक्तप्रकारेण ध्यात्वा । किंविशिष्टा सा ? 'नवघनघृता भूरिवोष्मायमाणा' नवश्वासौ घनश्च नवघनः, नवघनेन घृता सिक्ता नवधनसिक्तेति । ऊष्मायमाणा ऊष्माणं बाष्पमुद्वमन्ती। पुनः किंविशिष्टा सा ? 'समदमदनावेशतो युक्तायुक्तमविन्दमाना' प्रमोदमोहसम्भेदो मद उच्यते । तत्रायं मेघो मत्सन्देशैः प्रियं सान्त्वयिष्यतीति प्रमोदः, मोहः पुनर्मूढता, तयोः सम्भेदः सङ्गमो मदस्तेन सह वर्तते यो मदनस्तस्यावेशः संरम्भस्तस्माद्युक्तं चायुक्तं च न