________________
१४
जैनमेघदूतम् । समुच्चयकाव्यलिङ्गपरिकरानुप्रासाः । यथा-"समुषयोऽसौ त्वन्यो युगपद् या गुणक्रियाः॥" (का० प्र० १०, ११ "काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥” ( का० प्र० १०, ११ देशप्रभुरिति अभिनव इति साभिप्रायैर्विशेषणैः परिकरः ॥ ५। नीलीनीले शितिलपनयन् वर्षयत्यश्रु वर्षन्
गर्जत्यस्मिन् पटु कटु रटन् विद्ययत्यौष्ण्यमिग्रत् । वर्षास्वेवं प्रभवति शुचे विप्रलब्धोऽम्बुवाहे
वामावर्गः प्रकृतिकुहनः स्पर्धतेऽनेन युक्तम् ॥ ६॥ 'विप्रलब्धः' वियोगवान् 'वामावर्गः' स्त्रीवर्गो वर्षासु ॥ वक्ष्यमाणेन प्रकारेणानेन मेधेन युक्तं स्पर्द्धते । किंरूपो वामावर्ग 'प्रकृतिकुहनः' प्रकृत्या कुहन ईर्ष्यालुः । किं कुर्वन्? 'अस्मिन् अम् वाहे 'नीलीनीले' सति गुलिकाश्यामवर्णे सति 'शितिलपनय शिति श्यामं लपनं मुखं करोतीति । पुनः किं कुर्वन् ? 'वर्षा वृष्टिं कुर्वति अश्नु वर्षन् । अस्मिन् गर्जति सति ‘पटु' पटिष्ठं 'क श्रवणासुखदं तीव्र 'रटन्' विलपन् । अस्मिन् ‘विद्ययति' विद्यु द्योतयति 'औष्ण्यं' उष्णभावं 'इयत्' प्राप्नुवन् । किंविशिष्टेऽम्बुवाहे 'शुचे' शोकाय प्रभवति सति । अन्योऽपि यो येन स्पर्द्धते स तर चेष्टामनुकरोति, अतो यदा वर्षको मेघः कालतां कलयति, यतः "रोलम्बगवलव्यालतमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नै प्रायाः पयोमुचः॥” तदा वामावर्गोऽपि कृष्णं मुखं करोति । यद वर्षति तदाऽश्रु वर्षति । यदा गर्जति तदा गाढं प्रलपति । यदा र विद्युतं प्रकाशयति तदोष्णनिःश्वासान मुश्चति । वर्षासु कालत्वादि भावैर्विशिष्टमुन्नतं मेघ वीक्ष्य विरहिणीवर्गः कालमुखत्वादिक दधाति, तच्च स्पर्द्धारूपेणात्र विशिष्यते। शिति च तल्लपनं च शितिलपनं तत्करोतीति "णिज बहुलं नानः कृगादिषु" (सि० ३-४४२) णिचप्रत्ययः, पश्चात् शत् । वृषू सेचने, वृष, वर्षणं वर्ष