________________
सर्गः ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
१३
पालयतीतिवत् अन्तर्भूतण्यर्थस्य ण्यन्तस्य प्रयोगः । अथवा तत्कारणं जनं 'अवगमयामि ज्ञापयामीत्यविवक्षितकर्मधातुः । अथवाऽवगमनमवगमः, “युवर्णवृदृवशरणगमुग्रहः” ( सिद्ध० ५-३२८) अल्प्रत्ययः, तस्य हेतोरवगमस्तदवगमः, तदवगमं करोमि तदवगमयामि । " णिज् बहुलं नाम्नः - " ( सिद्ध० ३-४४२ ) णिच्प्रत्ययः, “यन्त्यस्वरादेः " ( सिद्ध० ७–४–४३ ) अन्त्यस्वरलोपः, पश्चान्मिव प्रत्यये सिद्धम् । अथवा यत्तदिति विभक्तिप्रतिरूपका अव्ययशब्दाः । किं कारणम् ? इत्याह- - अर्जितेन 'एनसैव' पापेनैव तौ कालिमानं न्यध्यासाते इति शेषः । अथ पापार्जने हेतुमाह — कस्मादर्जितेनेति । 'तत्र' तयोर्द्वयोर्मध्ये 'एक ः ' कृष्णः 'अस्मत्पतिविरचिताभ्रेषपेषानिषेधात्' अर्जितेनैनसाऽस्माकं पतिरस्मत्पतिस्तेन विरचितो योऽभ्रेषो न्यायस्तस्य पेषो विनाशस्तस्यानिषेधादनिवारणात् । “अविशेषणे द्वौ चास्मदः " ( सिद्ध० २२ - १२२ ) इत्येकार्थेऽपि बहुत्वम् । अयं भावः - मम पत्याऽहं स्वीकृत्य परिहृतेत्यन्यायः कृतः, स श्रीकृष्णेन राज्ञा न निषिद्धः । अतः “ राशि राष्ट्रकृतं पापं राज्ञः पापं पुरोहिते । भर्त्तरि स्त्रीकृतं पापं शिष्यपापं गुरोर्भवेत् ॥” इति न्यायात्कृष्णस्य पापं लग्नमिति । 'अन्यः' अम्बुदोऽस्माकं 'विप्रयोगे' वियोगे 'अभिसर्गात् ' अग्निरिवाग्निर्मनस्तनुसंतापकत्वाद्दुःखसंभारस्तस्य सर्गात्सृष्टेः । वर्षासु घनोन्नतौ विरहिणां महादुःखोत्पत्तिः । यतः - " स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सह वैदेही तु कथं भविष्यति हहा हा देवि ! धीरा भव ॥" इति काव्यश्रवणात् । किंविशिष्टे विप्रयोगे ? ' गहनगहने' गहनं कान्तारं तद्वहनो दुर्गमः । ततोऽप्रेऽपि गहनो विरहस्तत्र पुनरपि प्रियस्मारणरणरणकादिना दुःखबर्द्धनं क्षते क्षारक्षेपवन्महापापाय, यथा कोऽपि वने पतितानामग्निदानं करोति तस्य महापापम् । अत्र
1