________________
[प्रथ
जैनमेघदूतम् । पुरुषं न प्रार्थयतीतिभावः । द्वैतीयीकं तार्तीयीकमित्यत्र द्वितीय पूरणं द्वैतीयीकं तृतीयस्य पूरणं तार्तीयीकम्, "तीयाट्टीकर (सि० ७-२-१५३) टीकण् प्रत्ययः। "वृद्धिः स्वरेष्वादे:(सि० ७-२-१) वृद्धिः । सैष इत्यत्र "तदः सेः स्वरे पादार्थ (सि० १-३-४५) इत्यनेन सिलोपः । यथा-"सैष दार रथी रामः सैष राजा युधिष्ठिरः। सैष कर्णो महात्यागी सैष भीर महाबलः ॥” व्यराडीत् , रजी रागे, रञ्ज विपूर्वः। अद्यतनी दि "सिजद्यतन्यां” (सि० ३-४-५३) सिन् । “व्यञ्जनानाम निर्टि" (सि० ४-३-४५) वृद्धिः । “सः सिजस्तेर्दिस्योः (सि० ४-३-६५) ईआगमः । “चजः कगम्” (सि० २. १-८६) जग। "अघोषे प्रथमोऽशिटः” (सि० १-३-५० ग क । “नाम्यन्तस्था-" (सि० २-३-१५) स प । कषसंयो क्ष लोकात् । तुर्यमित्यत्र चतुर्णा पूरणं तुर्य, “ये यो चलुक च' (सि० ७-१-१६४) यप्रत्ययः चलुक् । न्यायादनपेतं न्याय्य तस्मादनपेते यप्रत्ययः । अत्रासत्पदार्थसमुदायादसत्समुच्चयः न्याय्यानेत्यत्र पर्यायः । यथा--"वस्तुविवक्षितवस्तुप्रतिपादनश. क्तमसदृशं तस्य । यदजनकमजन्यं वा तत्कथनं यत्स पर्यायः ॥" (रु० का० ७, ४२) विप्रलम्भरसाधिक्यं वा ॥ ४ ॥ कृष्णो देशप्रभुरभिनवश्वाम्बुदः कालिमानं
न्यध्यासाते तदवगमयाम्येनसैवार्जितेन । तत्रैकोऽसत्पतिविरचिताभ्रेषपेषानिषेधा
दन्योऽसाकं गहनगहने विप्रयोगेऽग्निसर्गात् ॥ ५॥ यत् 'देशप्रभुः' देशस्वामी कृष्णः 'च' अन्यत् अभिनवोऽम्बुदः 'कालिमान कृष्णत्वं 'न्यध्यासाते' विभूतः 'तत्' कारणमहं 'अव. गमयामि' जाने । येन हेतुनैतौ द्वावपि कृष्णालो जादौ तत्कारण, मई जान इत्यर्थः । अत्रावगमयामीति कथं प्रयोगः सिध्यति ?