________________
सर्ग: । ]
श्रीमन्मेरुतुङ्गसूरिविचितं
११
तथा - " यस्य विकार: प्रभवन्नप्रतिबद्धेन हेतुना येन । गमयति तदभिप्रायं तत्प्रतिबन्धं च भावोऽसौ ॥" ( रुद्रटकाव्यालङ्कार ७, ३८ ) निदध्यौ दध्यौ चेति क्रियाद्वयेन समुच्चयः । यथा“यत्रैकत्रानेकं वस्तु परं स्यात्सुखावहाद्येव । ज्ञेयः समुच्चयोऽसौ त्रेधाऽन्यः सदसतोर्योगः || ” ( रुद्रटकाव्यालङ्कार ७, १९ ) एवमनुप्रासपरिकरभावसमुच्चयपरिकरालङ्कारा औत्सुक्यभावोदयश्च ॥ ३ ॥
•
अथ सा यद्दध्यौ तदाहएकं तावद्विर हिहृदयद्रोहकृन्मेघकालो द्वैतीयीकं प्रकृतिगहनो यौवनारम्भ एषः । तार्तीयीकं हृदयदयितः सैष भोगाव्यराशी
तुर्य न्याय्यान्न चलति पथो मानसं भावि हा किम् || ४ || 'एकं तावदिति' लोकोक्तेरनुकरणम् । यथा - " एकतो हि गमनं परदेशे अन्यतश्च पिशुनैः सह सङ्गः । पूर्वमेव हि कुभोजन मे कं मक्षिका कवलितं च ततोऽन्यत् ॥ १ ॥” लोको हि दुःखपरम्परापीडित एवं वक्ति तेनात्र न्यूनपदत्वं न दोषाय किन्तु गुणाय । अव्यक्तत्वान्नपुंसकम् । “ गायत्र्याद्यणूस्वार्थे व्यक्तं " ( हे० लि० न० १० ) इति वचनात् । यथाऽस्या गर्भे किं जातमिति । ततोऽयमर्थः — एकं तावदिदं कष्टं यत् 'मेघकाल : ' वर्षाकालः किंविशिष्टः ? विरहिणां हृदयस्य द्रोहं करोतीति विरहिहृदयद्रोहकृत् । 'द्वैतीयीकं' द्वितीयमिदं कष्टं 'प्रकृतिगहन : ' स्वभावविषमः 'यौवनारम्भः’ तारुण्यप्रवेशः । ' तार्तीयीकं' तृतीयमिदं कष्टं यत् 'सैष: ' सर्वजगत्प्रसिद्ध एष मानसप्रत्यक्षतया समीपवर्ती साक्षादनुभूयमानो भगवान्नेमिर्भोगात् 'व्यराङ्गीत् ' विरक्तः । किंरूपो भगचान् ? हृदयस्य दयितो वल्लभः । 'तुर्य' चतुर्थमिदं कष्टं यत् 'न्याय्यात् ' न्यायादनपेतात् 'पथः ' मार्गात् 'मानस' चित्तं 'न चलति' न भ्रश्यति । एतावता स्वीयस्वामिनं परित्यज्य मनोऽन्यं
GOOD