________________
१० . जैनमेघदूतम् । [प्रथ
ततो मूर्छानन्तरं किं जातम् ? इत्याहसक्रीचीभिः स्खलितवचनन्यासमाशूपनीतैः
स्फीतैस्तैस्तैर्मलयजजला दिशीतोपचारैः । प्रत्यावृत्ते कथमपि ततश्चेतने दत्तकान्ता
कुण्ठोत्कण्ठं नवजलमुचं सा निदध्यौ च दध्यौ ॥३ 'ततः' तदनन्तरं 'सा' राजीमती 'नवजलमुचं' नवीनमे 'निदध्यौं' ददर्श 'च' अन्यद् 'दध्यौ' वक्ष्यमाणं विचारयामास क्क सति ? 'तैस्तैः' सर्वलोकप्रसिद्धैः 'स्फीतैः' प्रभूतैर्मलयजजला
दिशीतोपचारैः 'कथमपि' महता कप्टेन 'चेतने ज्ञाने 'प्रत्यावृत्ते सति पश्चाद्वलिते सति । मलयजं चन्दनं जला क्लिन्नवस्त्रमि त्यादयो ये शीता उपचारास्तैः । किंरूपैः ? 'सद्धीचीभिः सखीभिः स्खलितवचनन्यासं यथाभवति 'आशु' शीघ्रं 'उपनीतैः' ढौकितैः । स्खलितः स्खलनां प्राप्तो वचनानां न्यासो यत्र शीतोपचारोपनयने । कोऽर्थः ? राजीमती मूछितां दृष्ट्वा शोकेन हलाश्चन्दनं चन्दनं जलार्दा जलानॆत्यादि सखीनां वचनान्यौत्सुक्येन स्खलन्ति सन्तीति । किंरूपं नवजलमुचम ? 'दत्तकान्ताकुण्ठोत्कण्ठं' दत्ता कान्ते प्रिये कान्तायां वा पत्न्यामकुण्ठा तीक्ष्णा उत्कण्ठा येन स तथा । वर्षाकाले हि नवं मेघमुन्नतं दृष्ट्वा नारीणां कान्ते नराणां कान्तायामुत्कण्ठा जायते । ततः शोकगद्गदखराभिः सखीभिरानीतैश्चन्दनादिशीतोपचारैश्चैतन्ये पश्चाद्वलिते सति राजीमती नवं मेघं ददर्श । तथेति मनस्यध्यायदिति भावार्थः । अत्रानुप्रासप्रकरः । स्खलितवचनन्यासमित्यादिविशेषणैरौत्सुक्यभावोदयः । परिकरालङ्कारश्च, यथा रुद्रट:-"साभिप्रायैः सम्यविशेषणैर्वस्तु यद्विशिष्येत । द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति ॥” (काव्यालङ्कार ७, ७२) दत्तकान्तेत्यादि नवमेघविशेषणं राजीमत्या अपि स्वामिन्यनुरागभावं सूचयतीति भावः।