________________
सर्गः। श्रीमन्मेरुतुङ्गसूरिविचितं रपि परमार्थतो धर्मस्यैव पृथिव्याधारत्वेन स्वीकारात् । शेषविशेषणपदान्यत्रापि पूर्ववद्वाच्यानि । केवलमत्युचं धाम लोकाग्ररूपं सर्वोत्तमं तेजो वा । ननु काव्यं गुणालङ्कारभूषितं कार्यम् । यतो वाग्भटः-"साधुशब्दार्थसन्दर्भ गुणालङ्कारभूषितम् ।' (१-२) इत्यादि । अत्र को गुणः ? कोऽलङ्कारः ? उच्यते, यद्यपि वाग्भटे दश गुणाः सन्ति तथापि काव्यप्रकाशेऽलङ्कारचूडामणौ च त्रयो गुणाः प्रोक्ताः सन्ति, 'माधुयाँजःप्रसादास्त्रयो गुणाः ।' (अलङ्कारचू० ४ अ०) अन्येषामेष्वेवान्तर्भावान् । अत्रार्थस्य झगित्यर्थापकत्वात् प्रसादः । पदानां मृदुरचनया च माधुर्यमपि । एवं गुणा यथार्हमूह्याः । एषां लक्षणम्-'मूर्ध्निवर्गान्यगाः स्पर्शा अटवर्गा रणौ लघू । अवृत्तिमध्यवृत्तिर्वा माधुर्ये रचना तथा॥ योग आद्यतृतीयाभ्यामन्ययो रेण तुल्ययोः । टादिः शषौ वृत्तिदैर्घ्य गुम्फ उद्धत ओजसि ॥ श्रुतिमात्रेण शब्दानां येनार्थप्रत्ययो भवेत् । साधारणः समग्राणां स प्रसादो गुणः स्मृतः ॥” (काव्यप्रकाश ८,७४-७६) ननु सगुणमपि काव्यं युवतीरूपमिव निरलङ्कारं नाभात्यतोऽलङ्कारा उच्यन्ते-अलङ्कारा द्विधा, शब्दार्थभेदात् । तत्र शब्दालङ्काराः पञ्च-वक्रोक्ति १ अनुप्रास २ यमक ३ चित्र ४ श्लेष ५ रूपाः । अर्थालङ्कारास्तूपमाद्या बहुप्रकाराः । अत्रान्येष्वपि च काव्येषु प्रायोऽनुप्रासः शब्दालङ्कारस्तारतम्येन ज्ञेयः । तल्लक्षणम्-"तुल्यश्रुत्यक्षरावृत्तिरनुप्रासः स्फुरद्गुणः” ( वाग्भट ४, १७) इति । कश्चित्कान्तामित्यादौ काधक्षरावृत्तिः स्वयमभ्यूह्या । अर्थालङ्कारास्तु अवसर १ हेतु२ दीपक ३ उपमा ४ जाति ५ श्लेषा ६ ज्ञेयाः। तत्र श्रीनेमिसम्बन्ध प्रतिपादयितुः कवेः कश्चित्कान्तां तत्याज रैवतं स्वीचकारेति तस्योपलक्षणमित्यवसरः, “यत्रार्थान्तरमुत्कृष्टं सम्भवत्युपलक्षणम् । प्रस्तुतार्थस्य स प्रोक्तो बुधैरवसरो यथा ॥” (वाग्भट ४, १२४) कान्तात्यागेऽविषयसुखेच्छुताऽत्यन्तधीमत्ता एनो