________________
६
जैनमेघदूतम् ।
कर्मणोः कथामूलबीजयोः साक्षान्नान्नोरनुपादानाद्वाच्यहीनदोषो वाच्यः, अनन्यसाधारणतथाविधप्रसिद्धार्थसामर्थ्यादेव तत्प्रतीतेः । न खलु यदुकुलालङ्कारश्रीने मिकुमारादपरस्य कस्यापि त्रिभुवनगुरोः स्वसमये परसमये च कान्तात्यागवार्षिकदानगिरिनारस्वीकारविषया प्रतीतिरस्ति येन तत्साधारण्यनिवृत्तये नामोपादानं क्रियत एव । किश्वार्थ सामर्थ्यात्प्रतीयमानस्य वस्तुनः साक्षादप्रकाशनं प्रत्युत दीप्ति-. हेतु:, 'उक्तार्थानामप्रयोगः' इति वचनात् काव्ये व्यङ्ग्यस्येव प्राधान्यात्, "इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः ।” (का० प्र० १, ४) इति काव्यप्रकाशोतेः । शब्दस्य व्यञ्जकत्वं संयोगादिभिः स्यात्, “संयोगो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ प्रस्तावदेशकालादेवैशिष्ट्यात् प्रतिभाजुषाम् । शब्दार्थस्यानवच्छेदे विशेषस्मृति - तवः || ” अत्र कान्तां त्यक्त्वा श्रीगिरिनारस्वीकारो देशवैशिष्ट्यम् । त्रिभुवनगुरोः शब्दस्य नेमीश्वरनामव्यञ्जकत्वम् । न्यायसारेऽप्युक्तम् — “ अर्थादापन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्तम् ।" तत्रापि कश्चिदिति पदं समानेऽपि सकलत्रिभुवनगुरूणामलक्ष्यत्वे शङ्खपूरणचतुर्भुजान्दोलनवसन्तखेलनादिप्रवृत्तिपथप्रवर्त्ताननुत्तरनिवृत्तिको - टिमारूढस्य सुविशेषतरमस्य भगवतोऽलक्ष्यत्वं द्योतयति । यथा" सर्वज्ञाय नमस्तस्मै कस्मैचित्परमात्मने ।” इह " यावत्सम्भवस्ताव - द्विधिः" इतिन्यायाद् विशेषोऽपि व्याख्यायते — अन्योऽप्यत्यन्तधीमान् कश्चित्पुमान् एनोवृत्तिमुज्झति । किंरूपाम् ? सकलजीवस्वाभाव्यात्कान्ताम् । अथोऽनन्तरं पुण्यं स्वीकरोति । किंभूतं पुण्यम् ? पृथ्वीधरवरं पृथ्वीं धरन्तीति पृथ्वीधरा लोकरूड्या शपाहिवराहकूर्मादयस्तेषु वरं श्रेष्ठम् । अनवस्थादोषपरिहाराय सर्वै
[प्रथमः
--
१ " संसर्गो" इति कचित् । २ “सामर्थ्य मौचिती देशः कालो व्यक्ति खरादयः ।" इति प्रन्थान्तरेषु पाठः ।