________________
सर्गः॥
श्रीमन्मेन्तुसूरिविचितं
बुद्धित्रिकस्यातत्त्वनिष्ठेन प्रायः सान्तत्वादत्यन्तधीरत्र पारिणामिक्येव गृह्यते, तस्या एव सम्यग् हेयोपादेयपरिणामसुन्दरविचारसामर्थेनात्यन्तनिःश्रेयसफलवत्त्वेनात्यन्तविशेषणविशिष्टत्वात् । ननु यद्येवंविधो भगवान् तदा कान्तां किमत्यजत् ? इत्याह-एनोवृत्ति' एनसां हिंसादिपातकानां वृत्तिं व्यापारं सर्वपापव्यापाराणां कारणत्वात् । कान्तायाः शुद्धसारोपलक्षणया एनोवृत्तेरारोपः, यथा "आयुघृतं, यशस्त्यागः" इत्यादि । कथं कान्तां तत्याज? इत्याह-'खैरमिति' स्वेच्छया न तु परोपदेशेन, अर्हतां स्वयमेव संबुद्धत्वात् । 'अथो' इत्यानन्तर्ये । 'सुरतरुरिव' कल्पवृक्ष इव दानं दत्त्वा 'रैवतं' सुराष्ट्रामण्डलालङ्कारं श्रीगिरिनारं 'स्वीचकार' भेजे । दीयते यत्तदानं कोटिसङ्ख्यकाञ्चनादि, भुजिपत्यादीनां आकृतिगणत्वात्कर्मण्यनट् , यथा भोजनमिति । ननु अस्वं खं चकार खीचकारेति व्युत्पत्तेराश्रयणात्तस्य भगवतो ममत्वदोपः प्रसज्यत इति चेन्न, योगिनामपि ध्यानसाधनस्थानादिषु स्वीचकारमात्रदर्शनात् । अन्यथा योग्यदेशादिषु प्रवृत्तिरयोग्यादिभ्यश्च निवृत्तिस्तेषां न स्यादिति । अपरपर्वतान् परित्यज्य रैवतमेव कुतः खीचकार ? इत्याह-'पृथ्वीधरवरं' पृथ्वीधरेषु मेरुमानुषोत्तरादिषु सुखाधिरोहत्वासन्नत्वाभ्यामुपयोगित्वात् शेषपर्वतेषु पुनः सहस्रा. स्रवणादिसौन्दर्येण तुङ्गस्वादिना च वरं श्रेष्ठम् । एवंविधश्च पर्वतः सदोषोऽपि कदाचिद्भवतीत्याह-सर्वदोषाणां सर्पमार्जारवायसादिहिंस्रजन्तूनां चाभावेन 'पुण्यं' पवित्रम् । कुतो रैवतं स्वीचकार ? इत्याह-'अत्युच्चधामारुरुक्षुः' अतिशयेनोच्च धाम स्थानमपरस्थानस्यैतद्विशेषणानुपपत्तेर्लोकाग्ररूपमारोढुकामः, अयमर्थः-अन्यो योऽत्युचतरस्थानमधिरोदमिच्छति स उच्च स्थानं भजते । एवं भगवानप्यत्युवमुक्तिपदारोहं वाञ्छनुत्तुङ्गं रैवतपर्वतं स्वीचकारेति । इह कश्चित्कान्तेति वाक्यावयवः श्रीकालिदासकृतमेघदूतमहाकाव्यप्रथमवृत्ताधवर्णानुवृत्त्योपात्तः । न चैवमत्र कर्तृ