________________
जैनमेघदूतम् ।
[प्रथमः
कश्चित्कान्तामविषयसुखानीच्छुरत्यन्तधीमा
नेनोवृत्तिं त्रिभुवनगुरुः स्वैरमुज्झाञ्चकार । दानं दत्त्वा सुरतरुरिवात्युच्चधामारुरुक्षुः
पुण्यं पृथ्वीधरवरमथो रैवतं खीचकार ॥१॥ 'कश्चित् लोकोत्तरगुणतयाऽलक्ष्यस्वरूपत्रिभुवनगुरुः ‘कान्तां' पत्नी 'स्वैरं' खेच्छया 'उज्झाञ्चकार' तत्याज । त्रयाणां भुवनानां समाहारत्रिभुवनम् , 'पात्रादिवर्जितादन्तोत्तरपदः समाहारे ।' (हेमलिङ्गानुशासन स्त्री० ५ श्लो०) इत्यत्र भुवनशब्दस्य पात्रादिगणान्तःपाठान्न डीप्रत्ययः । ततश्च त्रिभुवने गुरुमहान्, महत्त्वं चास्य गार्हस्थ्येऽप्यनन्यसम्भविपरब्रह्मविद्याविशेषत्वात्सकलसुरासुरनरेश्वराणां वन्दनीयत्वाच्च । यदि वा “भाविनि भूतवदुपचारः" इतिन्यायात्रिभुवनस्य गुरुः शास्ता सम्यग्धर्मोपदेशक इति यावत् । अचिरेणैव केवलज्ञानोपलम्भेन यथावस्थितसमस्तवस्तुतत्त्वावबोधात्सकलसत्त्वहितार्थमेव प्रवर्तनशीलत्वाञ्चेति । नन्वविषयेत्यादिविशेषणानि किं स्वरूपप्रतिपादकानि व्यवच्छेदकानि वा?, आये पक्षे तानि वैयर्थ्य प्राप्नुयुः। अथ व्यवच्छेदकानि तर्हि किं व्यवच्छेदं निजागद्यते ?, कान्तात्यागस्तथाविधहेत्वन्तरेणापि स्यान्नलादिवदित्याह-'अविषयसुखानीच्छुः' विषयाः श्रोत्रादीन्द्रियार्थाः शब्दादयस्तद्रहितानि सुखान्यविषयसुखानि विषयसुखानां दुर्गतिदायित्वादिदोपदुष्टत्वेन तत्त्वतो दुःखरूपत्वादकृत्रिमचिदानन्दसुखानीतिभावस्तानीच्छतीत्येवंशील इच्छुः "विन्द्विच्छू” (सिद्धहेम ५-२-३४) इत्यनेन इच्छुर्निपातः । अविषयसुखेच्छा च कदाचित्तत्तद्विषयदोषानुभवेऽपि स्यादत आह-'अत्यन्तधीमान्' अन्तमतिकान्ता अत्यन्ता, "प्रात्यवपरिनिरादयोगतकान्तकुष्ट-" (सिद्धहेम ३-१-४७) इत्यादिना तत्पुरुषः क्रियाविशेषणं वा। ततोऽत्यन्ता अत्यन्तं वा धीविद्यते यस्य स तथा, औत्पत्तिक्यादि