________________
सर्गः ।]
श्रीमन्मेरुतुङ्गसूरिविरचितं
३
-
( काव्यालङ्कार १,१३ ) ननु नहि निष्प्रयोजना प्रवृत्तिः प्रेक्षावता - मिति किमत्र प्रयोजनं ? उच्यते, "काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परिनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥” ( १, २ ) इति काव्यप्रकाशाद्युक्तेषु बहुष्वपि प्रयोजनेष्वत्र जगत्रयत्रायक श्रीनेमिजिननायकपवित्र चरित्राकर्णनादेव परमप्रमोदोत्पत्तिः प्रयोजनम्, सकलप्रयोजनेषु तस्या एव प्रशस्यत्वादन्यप्रयोजनेषु सुविहितयतीनामिच्छाया असम्भवाच । ननु महाकाव्यानि तान्येवोच्यन्ते यत्र नगनगरसागरनरपतिप्रधानर्तु चन्द्रसूर्योदयशृङ्गारादिनवरसवर्णनं स्यात् । यथा रुद्रटः – “सन्ति द्विधा प्रबन्धाः काव्यकथाख्यायिकादयः काव्ये | उत्पाद्यानुत्पाद्या महल्लघुत्वेन भूयोऽपि ॥ तत्रोत्पाद्या येषां शरीरमुत्पादयेत्कविः सकलम् । कल्पितयुक्तोत्पत्तिं नायकमपि कुत्रचित्कुर्यात् ॥ पञ्जरमितिहासादिप्रसिद्धमखिलं तदेकदेशं वा । परिपूरयेत्स्ववाचा यत्र कविः सेत्यनुत्पाद्या ॥ तेषु महान्तो येषु प्रकृतेष्वभिधीयते चतुर्वर्गः । सर्वे रसाः क्रियन्ते काव्यस्थानानि सर्वाणि ॥ ते तेनवो विज्ञेया येष्वन्यतमो भवेच्चतुर्वर्गात् । असमग्राऽनेकरसा ये च समप्रैकरसयुक्ताः || ” ( काव्यालङ्कार १६, २ - ६ ) इत्यादिवचनादत्र तेषां सर्वेषामसाकल्येऽपि कथं महाकाव्यता ? इति चेत् सत्यम्, परं पेप्रीयमाणविद्वलोकैः स्तोकैरपि परमयुक्तियुक्तैरपूर्वार्थरचनानुवक्तैः प्रधानैः काव्यस्थानैर्महाकाव्यव्यपदेशो नानौचित्यमश्वति, नैषधादिकाव्यवत् । अथवा परमाभङ्गुरगुरुसौभाग्यरङ्गावतारसर्वदैवतसारयदुकुलशृङ्गारश्रीनेमिकुमारचरितकीर्त्तनात्केवलादेव जाघटीत्यस्य महाकाव्यप्रतिष्ठा । यथा जात्यरत्नरचितसौवर्णमुद्रिकयैव शृङ्गारेषु शोभासम्भारः । तत्रादौ मङ्गलाभिधेयगर्भमिदं वृत्तम्
१ " लघवो" रुद्रटकाव्यालङ्कारे ।