________________
जैनमेघदूतम् ।
[प्रथमः अम्भोधिप्रभवे प्रभूतमहसा मान्ये महार्ये मणौ __ सामान्यखधियार्थजल्पनमजापालस्य बालस्य वा ॥ ये प्राज्ञाः खयमर्थचारिमगुणव्यापारपारङ्गमा
स्तेषामेष विशेषकनहि भवेन्मद्वाक्प्रपञ्चः किल । ये सूक्ष्माक्षरदर्शिनो नयनयो मल्यतोत्र स्वयं किं तेषां स्फटिकोपलस्तु फलिनो वर्णस्फुटत्वप्रदः॥
ये सन्ति मन्दमतयो भुवनेत्र बाला ___ मत्तोऽप्यतीक्ष्णतलिनप्रतिभाः स्वभावात् । तेषां प्रबोधविधये खमतिप्रकाश
हेतुं च यत्नमहमप्यमुमातनोमि ॥ इह हि महामहिममित्रीकृतमेरुमहीधरप्रोत्तुङ्गशृङ्गश्रीमरुतुङ्गासूरिश्वरा अस्मद्गुरवः प्रवरनवरसप्रसरपूतं श्रीमेघदूतं महाकाव्यं चतुरचक्रचित्तचमत्कृतिचञ्चु प्रपञ्चयाञ्चक्रुः । नन्वप्रेऽपि श्रीहेमाचार्य-पण्डितश्रीअमर-कालिदासादिमहाकविप्रणीतानि गणनातीतानि प्रतिपदप्रादुर्भवन्नवरसावतारसारालङ्कारसङ्गतश्रोत्रामृतसमाननिरुपमानध्वनिनिधीतमाधुर्यादिगुणप्रधानरचनास्फीतानि सन्ति सङ्ख्यावत्सन्ततिस्तव्यानि महाकाव्यानि । तैरपि व्युत्पत्तेर्जायमानत्वात् किमयं मुधा प्रयत्नः ? उच्यते, सत्स्वप्यतुच्छप्रौढतापदप्रदतप्राप्तरूपचित्तप्रसादेष्वपि चिरन्तनेषु प्रासादेषु पुनः सुकृतिनां नवनवप्रासादनिर्मापणवद्विद्यमानेष्वपि महाकाव्येषु महाकवीनां नवनवकाव्यनिर्मापणं परमप्रतिष्ठापदमेव । तथा च प्रयोगः"सत्वपि काव्येषु कवीनां नवीनकाव्यनिर्मापणं युक्तमेव प्रतिष्ठाप्रदत्वात् , नव्यप्रासादनिर्मापणवत् ।” चातुर्यस्य च फलमेतदेव, यथा रुद्रट:-"फलमिदमेव हि विदुषां शुचिपदवाक्यप्रमाणशास्त्रेभ्यः । यत्संस्कारो वाचां वाचश्च सुचारुकाव्यफलाः ॥" १'भूतिपदः' इत्यपि।