________________
जैनमेघदूतम्। ' [प्रथमः वृत्तिमित्यादि तद्योग्यतोक्त्या हेतुः, “यत्रोत्पादयतः किंचिदर्थ कर्तुः प्रकाश्यते । तदयोग्यतायुक्तिरसौ हेतुरुको बुधैर्यथा ॥” (वाग्भट ४, १०५) इति वचनात् । कान्तामुज्झाञ्चकार रैवतं स्वीचकारेति क्रियाद्वयस्य कश्चिदित्यनेन सम्बन्धाद् दीपकम् , यतः--"आ. दिमध्यान्तवर्येकपदार्थेनार्थसङ्गतिः। वाक्यस्य यत्र जायेत तदुक्तं दीपकं यथा ॥” (वाग्भट ४, ९९) सुरतरुरिवेत्युपमा । तल्लक्षणम्-'उपमानेन सादृश्यमुपमेयस्य यत्र सा । प्रत्ययाव्ययतुल्यार्थसमासैरुपमा मता ॥” ( वाग्भट ४, ५०) तथा पुण्यं पृथ्वीधरवरं जातिः। यतः-"स्वभावोक्तिः पदार्थस्य सकियस्याक्रियस्य वा । जातिविशेषतो रम्या हीनत्रस्ताभकादिषु ॥” (वाग्भट ४, ४७) एकेन वाक्येन तैरेव पदैर्द्वितीयार्थस्योद्भावात् श्लेषः । “पदैस्तैरेव भिन्नैर्वा वाक्यं वक्त्येकमेव हि । अनेकमर्थ यत्रासौ श्लेष इत्युच्यते यथा ॥” (वाग्भट ४, १२८) एषां संयोगात् सङ्करो ज्ञेयः ॥ १॥ दीक्षां तसिन्निव नवगुणां सैषणां चापयष्टिं
प्रद्युम्नाद्यामभि रिपुचमूमात्तवत्येकवीरे । तद्भक्तेति च्छलितजगता क्लिश्यमाना निकामं ___ कामेनाशु प्रियविरहिता भोजकन्या मुमूर्छ ॥२॥
'भोजकन्या' राजीमती 'आशु' शीघ्रं मुमूर्छ । क सति ? 'तस्मिन्नेकवीरे' श्रीनेमिनाथे दीक्षां 'आत्तवति' गृहीतवति सति । विशेषेणेरयति प्रेरयति महामोहमिति वीरः, एकोऽद्वितीयो वीर एकवीरः "पूर्वकालैकसर्वजरत्पुराणनवकेवलम्” (सिद्धहेम ३-१-९७) इति कर्मधारयः । तस्मिन् समये तादृशचरितस्त्रान्यस्याभावादद्वितीयः, "एकोऽन्यः केवलः श्रेष्ठः सङ्ख्या” (हेमानेकार्यद्विखरकाण्ड २श्लो०) इत्यनेकार्थात् । यद्बा वीर सुभटः। किंभूतां दीक्षाम् ! उत्प्रेक्ष्यते-प्रयुनायां रिपुचमू 'अमिलक्ष्यीकृत्य 'चा