________________
१४
जैनमेघदूतम् ।
अथ तृतीयः सर्गः। पूर्वस्मिन् सर्गे भगवान जलक्रीडां कृत्वा निर्गत इ वसरोचितां चेष्टामाहतस्योत्तंसीकृतशतदले तोयबिन्दून वमन्ती
बभ्रासाते विरुतनिरतालोलरोलम्बचुम्ब्ये । हा! त्रैलोक्यप्रभुनयनयोः स्पर्धनादेनसां नौ
वृत्ते पात्रं प्ररुदित इतीवानुतप्ते सशब्दम् ॥ १। 'तस्य' भगवतः 'उत्तंसीकृतशतदले' कर्णाभरणीकृतशतपत्रे साते' रेजाते। किं कुर्वती ? 'तोयबिन्दून् वमन्ती' उदक स्रवन्ती, पुनः किंरूपे ? विरुतेषु शब्देषु निरता आसक्ता अ चञ्चला रोलम्बा भ्रमराः तैश्च्युम्व्ये चर्वणीये । उत्प्रेक्ष्यते. 'अनुतप्ते' पश्चात्तापतापिते सती सशब्दं 'प्ररुदित इव' प्रकृष्टं इव । इतीति किम् ? 'नौ' आवां 'हा' धिक्, किंरूपे नौ ? क्यप्रभुनयनयोः' श्रीनेमिनयनयोः स्पर्धनात् 'एनसां' पापानां भाजनं 'वृत्ते' जाते, तोयबिन्दुस्रवणं रोदनं भ्रमरारवश्च २ पश्चात्तापतयोत्प्रेक्षाञ्चके । नौ इत्यत्र हायोगे "गौणात् समय पाहाधिगन्तरान्तरेणातियेनतेनैर्द्वितीया” (सि० २-२-३३ द्वितीया। प्ररुदित इत्यत्र "रुत्पञ्चकाच्छिदयः” (सि०४-४इतीट् । अत्रोत्प्रेक्षानुमानानुप्रासाः ॥ १॥ दानथ्योती द्विप इव झरनिर्झरो वाञ्जनाद्रिः
पिण्डीभूतं वियदिव मनाक शारदं वर्षदब्दम् । निन्ये सर्वापधननिपतन्मेघपुष्पोञ्जनाभः _ श्रीमानेमिः सपरिवृढतां फुल्लकङ्केल्लिमूलम् ॥ २ ॥ श्रीमान्नेमिः फुलो विकसितः कङ्केलिः अशोकस्तस्य मूलं सपरिद सनाथतां निन्ये, एतावता कङ्केल्लिमूले प्रभुस्तस्थावित्यर्थः । किं भगवान् ? 'सर्वापघननिपतन्मेघपुष्पः' सर्वेऽपघना अङ्गावयव