________________
सर्गः]
श्रीमन्मेरुतुङ्गसूरिविरचितं
९५ भ्यो निपतत् क्षरत् मेघपुष्पं जलं यस्य, पुनः किंरूपो भगवान् ? 'अञ्जनाभः' अञ्जनवर्णः । गलज्जलबिन्दून् वर्ण चाश्रित्य तदनुरूपा उत्प्रेक्षा आह, उत्प्रेक्ष्यते-दानश्योती' दानं मदजलं न्योततीति क्षरतीति ईदृशो 'द्विपः' गज इव, उत्प्रेक्ष्यते-'झरनिर्झरः' निर्झरस्रावी अञ्जनाद्रिा इव, वा इवार्थे, अथवा उत्प्रेक्ष्यते-पिण्डीभूतं 'शारदं शरत्संबन्धि 'वियत्' आकाशमिव । किंविशिष्टं वियत् ? 'मनाक्' अल्पं 'वर्षदब्दं वर्षन अब्दो मेघो यस्मिन् तत् । अत्र मालारूपोत्प्रेक्षापर्यायोक्तानुप्रासाः ॥२॥
गोप्तुं शक्ते अपि गुणवती नैव सङ्गाजडानां __ गुह्यं भर्तुस्तदलमनयोः सेवयेत्येष तूर्णम् । थ्योतत्पाथःपृषतमिषतः साश्रुणी वातिसक्ते __ अप्यत्याक्षीत् परिहितचरे वाससी श्वासहार्ये ॥३॥
'एपः' भगवान् इति परिहितचरे' पूर्व परिहिते 'वाससी' वस्त्रे 'तूर्ण' शीघ्र 'अत्याक्षीत्' त्यक्तवान् । इतीति किम् ? इमे गुणवती अपि जलानां सङ्गाद् भर्तुगुह्यं गोप्तुं न शक्ते, गुणास्तन्तवः, 'गुह्यं' आच्छाद्यमङ्गम् , 'तत्' तस्मात्कारणात् अनयोः सेवया 'अलं' पूर्यताम् । अत्रान्योक्तिमाह-अन्योऽपि यो गुणवानपि जडानां' मूर्खाणां सङ्गात् 'भर्तुर्गुह्यं रहस्यं 'गोप्तुं' रक्षितुं शक्तो न भवति स स्वामिनः सेवकस्त्याज्यो भवति । किंरूपे वाससी ? उत्प्रेक्ष्यते'योतत्पाथःपृषतमिषतः साश्रुणी' 'वा' इवार्थे श्योतन्तः क्षरन्तः पाथसो जलस्य पृषता बिन्दवस्तेपां मिषतः कपटात् साश्रुणी अश्रुसहिते इव, पुनः किंरूपे ? 'अत्या(ति)सक्ते अपि' अत्यर्थमासक्ते लग्ने अपि । अन्योऽपि यः सेवकोऽत्यासक्तोऽतिभक्तो यदा केनचिद्दोषेण त्यज्यते तदा स साश्रुर्भवति । पुनः किंरूपे ? अतिलघुत्वात् 'श्वासहायें' श्वासेन हरणीये। साश्रुणी वेति वा इवार्थ, इवशब्दप्रयोगेऽपि मणी इव मणीवेत्यादिवत् परमतेन सन्धिर्भवति,