________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं ९३ श्रीमानेमिर्जलपतिकफत्पुण्डरीकाकाण्डो
वारांराशेरिव सुरकरी पुष्करिण्या निरैयः ॥ ४९ ॥ श्रीमान्नेमिः 'पुष्करिण्याः' दीर्घिकायाः निरैयः' निरगच्छत् । क इव ? 'सुरकरी इव' यथा सुरकरी ऐरावणो 'वारांराशेः समुद्रात निरियर्ति (स्म)। किंरूपो भगवान् ? 'अश्रान्तोऽपि' अनिर्विष्णोऽपि श्रमं वहन्निव, यद्यपि भगवाननन्तवीर्यत्वात् क्रीडया खेदं नाप्नोति तथापीमा अपारमार्थिक्य इत्यनादरेण श्रममिव वहन् । पुनः किंरूपः ? 'व्यक्तमुक्तायिताम्भोबिन्दुः' व्यक्तं स्पष्टं मुक्तावदाचरिता अम्भोबिन्दवो यस्य स व्यक्तमुक्तायिताम्भोबिन्दुः, यथा ऐरावणस्य समुद्रे क्रीडित्वा निर्गतस्य मुक्ताः शरीरे लगन्ति, स्वामिनस्तु मुक्तासदृशा अम्भोबिन्दवः, एवं सर्वत्रैरावणधर्मो ज्ञेयः । पुनः कथंभूतः ? रक्तोत्पलदलानां लवैः पत्रशकलैरामुक्ता बद्धा रक्ताकानां प्रवालानां राढा शोभा यस्य सः, समुद्रान्तः प्रवालानि अत्र च रक्तोत्पलदलशकलानि । पुनः किंरूपः ? जलपतिकफः फेनस्तद्वदाचरन्तः पुण्डरीकप्रकाण्डा धवलकमलमूलानि यस्य सः, ऐरावणस्य शरीरे फेनो लगति, प्रभोः फेनतुल्याः पुण्डरीकप्रकाण्डाः । निरैयरित्यत्र "ऋक् गतौ” + निपूर्वः, ह्यस्तनी-दिव, "हवः शिति” (सि० ४-१-१२) द्विः, "ऋतोऽत्" (सि०४-१३८) अ, "पृभृमाहाममिः” (सि० ४-१-५८) इत्वम्, "पूर्वस्याखे स्वरे य्वोरियुवू” (सि०४-१-३७) इय् , "स्वरादेस्तासु" (सि० ४-४-३१) वृद्धिः ऐ, "नामिनो गुणोऽविति" (सि०४-३-१) अर्, "व्यञ्जनाहेः सश्च दः” (सि० ४-३७८) दिवलोपः, "र: पदान्ते विसर्गस्तयोः” (सि० १-३-५३) विसर्गः । अत्र रूपकनिदर्शनोपमानुप्रासालङ्काराः ॥ ४९ ॥
इत्याचार्य-श्रीशीलरत्नसूरिविरचितायां श्रीजैनमेघदूत
महाकाव्यटीकायां द्वितीयः सर्गः ॥२॥