________________
८६
पं. श्रीप्रतापविजयविरचितः
वाचोयुक्त्याऽशेषविश्वप्रबोध, ज्ञानं यस्याऽनन्तवस्तुप्रकाशम् । क्षीणाज्ञानं सर्वसम्पन्निवासं, पूज्यं भक्त्याऽनन्तधैर्यं नुमस्तम् ॥४॥ नेता श्रेयोमार्गमाप्तप्रशस्यो, मिथ्याचारैः शून्यचेताः स जीयात् । सूनुर्नन्दामातुराप्तप्रवेको-ऽरिष्टध्वंस: सीमशून्यप्रतापः ॥५॥
(११) ॥ शालिनीवृत्तेन श्रीश्रेयांसनाथस्तुतिः ॥ आपत्कोटिध्वंसिनं श्रीजिनेन्द्र, संसाराब्धेस्तारकं निष्प्रपञ्चम् । दोषोन्मुक्तं विश्वविख्यातकीर्ति, श्रीश्रेयांसं निर्विकल्पं स्तवीमि ॥१॥ अम्भोजास्यं विघ्नवल्लीविनाशं, दीप्राखण्डज्ञानलक्ष्मीनिधानम् । क्षीणाकाक्षं निर्मलं तीर्थनाथं, श्रेयस्स्थानं निर्मदं ब्रह्मवासम् ॥२॥ श्रीस्याद्वादाद् यस्य तीर्थे समस्ता-ऽर्थानां नित्यं जायते सत्यवत्ता । यस्य ज्ञानं मत्तदुर्वाद्यधृष्यं, श्रीश्रेयांसं बोधिदं तं नमामि ॥३॥ अव्याबाधः सौख्यदो ज्योतिरात्मा, कल्याणानां कोटिदो भव्यशास्ता । वीतद्वेषः कामदः कामजेता, श्रीश्रेयांसो यच्छताद् वाञ्छितं मे ॥४॥ नेमुर्भक्त्या यं सुराः प्रास्तपापं, मित्रे शत्रौ काञ्चने वा दलौ वा । सूने दर्भे तुल्यदृष्टिं स्तुवे तं, रिक्तं मिथ्यामेधया सत्प्रतापम् ॥५।।
(१२) ॥ मन्दाक्रान्तावृत्तेन श्रीवासुपूज्यजिनस्तुतिः ॥ कल्याणानां कृपणमनसो दुर्लभानां निधानो, मोक्षेच्छूनां स्पृहितफलदो योग्यगम्यस्वरूपः । बाढं दूरस्थितिकृदपि यो भक्तिभाजामदूरो, रिष्टं दद्यादमरमहितो वासुपूज्यो जिनेन्द्रः ॥१॥ उद्यन्मित्रारुणिमसुषमाशोभमानः समन्तात्, पञ्चत्रिंशद्वचनसुगुणै राजमानो रसायाम् । भ्राम्यन्मन्थोदधिधुमधुमध्वानगम्भीरघोषो, रिष्टं दद्यादमरमहितो वासुपूज्यो जिनेन्द्रः ॥२॥ यस्य ब्राह्मी सुविलसति को योजनान्तप्रचारा, चण्डा देवी चरणकमलं यस्य नित्यं सिषेवे । येनोद्दामो विरतिकलया निर्जितो मीनकेतू, रिष्टं दद्यादमरमहितो वासुपूज्यो जिनेन्द्रः ॥३॥ वैराग्येण क्षणसुखकरं बाढसन्तापहेतुः, श्रेयोरोधं प्रकृतिचपलं यो हि राज्यं विहाय । भेजे दीक्षां भवजलतरीं सर्वसम्पत्तिमूलां, रिष्टं दद्यादमरमहितो वासुपूज्यो जिनेन्द्रः ॥४॥ नेमुर्भक्त्या यममरवरा ज्ञानसम्यक्त्वशुद्ध्यै, मिथ्यादृष्टीन् हितकरगिरा बोधयामास योऽरम् । सूक्त्यावल्या त्रिदशगुरुणा गीतसत्कीतिकूटो, रिष्टं दद्यादमरमहितो वासुपूज्यो जिनेन्द्रः ।।५।।
(१३)
॥ स्रग्धरावृत्तेन श्रीविमलजिनस्तुतिः ॥ प्राप्याऽखण्डां यदीयां प्रवचनतरणिं वादिवातादबाध्यां, दुस्तारापारसंसारजलधितरणे नैव शङ्काप्रसङ्गः । रागद्वेषादिदोषोज्झितमशुभभिदं सर्वदेवाधिदेवं, तं श्रीयोगीशवन्द्यं विमलजिनवरं संश्रये भावतोऽहम् ॥११॥