________________
८४
पं. श्रीप्रतापविजयविरचितः
ज्ञानस्वरूपमसपत्नममेयरूपं, संप्लुष्टविघ्नशलभं च्यवनादिशून्यम् । सन्नैगमादिनययुक्तगभीरवाचं, श्रीमेघराजतनयं सुमतिं नमामः ||३|| युग्मम् ॥ संसारदीप्तदमुन:शमनाम्बुतुल्यो यः संस्तुतः सुरगणैर्महिमानिधानः । मुक्तावलीव विशदं चरितं यदीयं, भूयाच्छ्रिये स सततं सुमतिर्जिनेशः ॥४॥ नेत्रद्वयं मम विभो ! तव दर्शनेन, मिथ्यात्त्वभिद् ! हरिहरादिषु मेघसूनो ! । सूक्त्या जितामरगुरो ! किल नैति तोषं, रिक्तेषु शुद्धचरितैः प्रचुरप्रताप ! ॥५॥
(६)
॥ वसन्ततिलकावृत्तेन श्रीपद्मप्रभस्वामिस्तुतिः ॥
मुक्तिप्रदं त्रिदशवन्दितपादपद्मं, दुष्पापरेणुहरणे पवनप्रकारम् । पद्मप्रभं विशदशारदराजतुण्डं, रत्नत्रयेण कलितं प्रणमामि नित्यम् ॥१॥ गात्रे च यस्य किल पापलवः प्रवेष्टुं छिद्रं मनाग् न लभते नितरां पवित्रे । चित्तं विकर्तुमलमास न मीनकेतु:, पद्मप्रभः स जयताद्धतसर्वकामः ॥२॥ संसारसन्ततिसमर्जितपापनाशं, सङ्कल्पशून्यहृदयं करुणावतारम् । सम्मोहवारणविदारणसारसिंहं, पद्मप्रभं जिनवृषं विभयं श्रयामि ||३|| तारस्वरं दरहरं धरवंशहारं, रागादिभावरिपुसंहतिसम्प्रहारम् । सम्यङ् गतं श्रुतवतां भजनीयभावं, पद्मप्रभं प्रणिदधे भवसिन्धुनावम् ॥४॥ नेपोद्भवाङ्कितपदं सकृपं प्रणौमि मित्रव्रजे रिपुगणे समचिद् दधानम् । सूदेतरामृतनिधि जिनपद्मदेवं, रिष्टावलिप्रणयिनं महितप्रतापम् ॥५॥
( ७ )
॥ शार्दूलविक्रीडितवृत्तेन श्रीसुपार्श्वजिनस्तुतिः ॥
सत्स्थामा महिमाम्बुधिर्न वशिमा कस्याऽपि लोकत्रये, क्रोधाद्युग्रचतुष्कषायरहितः श्लाघ्यावतारः क्षितौ । कान्तस्वस्तिकलाञ्छनोपकलितो ज्योतिर्मयोऽव्याजकः, सेन्द्रस्वग्गिकदम्बकार्चितपदो जीयात् सुपार्श्वप्रभुः ॥१॥ यन्नामस्मरणेन पावकपय:स्तेनक्षितीन्द्रद्विषद्-व्यालव्याघ्रजनुर्जरामरणरुक्छोकादिभीस्तम्भनम् । दुर्जेयाष्टककर्ममत्तकरिणां विध्वंसपञ्चाननः, पुण्यौघैर्गरिमा प्रमाणवचनः स स्तात् सुपार्श्वः श्रिये ॥२॥ संसारार्त्तिहरं विकाररहितं क्षेमङ्करं प्राणिना - मक्षोभ्यं परवादिभिः प्रवचनं यस्योज्ज्वलं कामदम् । सत्कीर्त्या परिपूरितत्रिभुवनं शकैः कृताराधनं, यो नृणां वितनोति वाञ्छितफलं तं श्रीसुपार्श्वं श्रये ||३|| नित्यानित्यपदार्थसार्थविलसत्प्रज्ञो गुणानां निधिः, संसाराम्बुनिधौ परप्रवहणो योगीन्द्रवन्द्यो विभुः । प्रज्ञापारमितो विलुप्तममतः सौभाग्यलक्ष्मीगृहं, निष्पापो भगवान् शिवं स भविनां दद्यात् सुपार्श्वो जिनः ॥४॥ नेत्रानन्दनचन्द्रमो ! भवनदान्मां तारयस्व द्रुतं, मिथ्याज्ञानविनाशनैककुशल ! क्षीणाष्टकर्मन् ! विभो ! | सूरिस्तोमपयोजबोधनरवेऽनीते ! सुपार्श्वप्रभो !, रिष्टक्षान्तियशः प्रतापवसते! पूज्यांह्रिपद्माऽनिशम् ॥५॥